________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 223 - - - हस्ताद्भष्टमिदं बिसाभरणमित्यासजमानेक्षणो, . निर्गन्तुं सहसा न वेतसगृहादीशोऽस्मि शून्यादपि॥३९॥ (विचिन्त्य-) अहो धिग् ! असम्यक् चेष्टितं, प्रियां समासाद्य कालहरणं कुर्वता मया। तदिदानीम्रहः प्रत्यासत्तिं यदि सुवदना यास्यति पुन-- नकालं हास्यामि, प्रकृतिदुरवापा हि विषयाः। पचे = दले / नखैः = कररुहैः। अर्पितः = उल्लिखितः / कान्तः = ललितपदः। एषः = निकटतरं दृश्यमानः। मन्मथलेखः = कामलेखः। हस्तात् = भुजलतायाः। भ्रष्टं = परिगलितम् / इदं = पुरतो विभाव्यमानं / विसाभरणं = मृगालवलयं / दृश्यत इति शेषः। इति = इत्यम् / आसजमाने ईक्षणे यस्यासौ-आसजमानेक्षण- = संसक्तलोचनयुगलः / शून्यादपि = प्रियारहितादपि / वेतसगृहात् = इतो वानीरकुजात् / निर्गन्तुं = बहिर्यातुं / सहसा = अकस्मात् / न शक्नोमि = न पारयामि / प्रियापरिचितान्याभरणादीनि निरीक्षमाणो, नाऽस्माद्वेतसकुञ्जाद्वहिर्गन्तुं समर्थ इत्याशयः। . [निर्गमनस्य कारणे शून्यत्वे सति यस्तदभावः-सा विशेषोक्तिः / प्रियासद्भावरूपकारणाऽभावेऽपि गमनविलम्बरूपकार्योदयाद्विभावना च / द्वयोरपि साधकबाधकप्रमाणाऽभावात्सन्देहसङ्करः / 'पुणं वाच्यं विशेषवत्'-इति धनिकोक्तः पुष्पं नाम प्रतिमुखसन्ध्यङ्ग च चतुर्थचरणे बोध्यम् / शार्दूलविक्रीडितं वृत्तं ] // 39 / / ___ धिक् = मां धिक् / असम्यक् = अनुचितं / चेष्टितम् = आचरितं / काल. हरणं = कालक्षेपं / कुर्वता = विदधता / मुहुर्मुहुः सम्प्रयोगशतान्यनाचरता च / कामबाधा सूचक उसका प्रेम पत्र पड़ा है। इधर उसके हाथ से खिसक कर गिरा हुआ यह बिस का बना हुआ भूषण (कङ्गन) पड़ा है / यहाँ इस प्रकार चारों ओर मेरी दृष्टि आकृष्ट हो कर अटक रही है, अतः मैं प्रिया से रहित इस वेत्रलतागृह से भी सहसा जाने में असमर्थ ही हो रहा हूँ // 39 // (कुछ सोचकर) हा धिक ! अपनी प्रिया को इस प्रकार एकान्त में पाकर भी इधर-उधरकी बातों में वृथा समय खोकर, मैंने बहुतहा अनुचित कार्य किया है।