________________ 266 अभिज्ञान-शाकुन्तलम्- [चतुर्थो (सर्वे-सविस्मयमाकर्णयन्ति ) / शाङ्गरवः--(कोकिलशब्दं सूचयित्वा-) भगवन् ! . अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः / परभृतविरुतं कलं यतः प्रतिवचनीकृतमेभिरात्मनः // 13 // सौरभ-शैत्य-मान्द्यानि बोध्यानि / एवमेव मार्गपक्षेऽपि च-शैत्य-सौरभ-मार्दवादीनि यथायथं शेयानि / इत्थञ्चोक्तिभङ्गया मार्गे एवाऽस्याः कुशलमिति सूचनात्पतिगृहं प्राप्तायामस्यां न सम्प्रति शुभमिति भविष्यदभङ्गलसूचनाऽपि / [ तुल्ययोगिता / परिकरः / काव्यलिङ्गञ्चेत्यादयोऽलङ्काराश्च विभावनीयाः। वसन्ततिलका वृत्तम् / // 12 // सविस्मयं = साश्चर्यम् / देवताभाषितमेतदिति हि विस्मयः। आकर्णयन्ति = शृण्वन्ति / सूचयित्वा = निर्दिश्य / भगवन् = हे कण्व ! / ___अनुमतेति। यतः-कलं = मधुरं, परभृतस्य विरुतं = कोकिलध्वनिः। एभिः = तरुभिः / आत्मनः = स्वस्य / प्रतिवचनीकृतं = स्वोत्तररूपेण प्रकटितं / ततः-वने वासेन बन्धुभिरिव बन्धुभिः = वने चिरं सहवासाद्वन्धुतां प्राप्तैः। तरुभिः = पादपैः / इयं शकुन्तला-अनुमतं गमनं यस्याः सा-अनुमतगमना = अनुज्ञातपतिगृहगमना एव / [ परभृतरुते प्रतिवचनत्वारोपस्य प्रकृतगमनोपकारकतया परिणामोऽत्राऽलङ्कारः / अपरवक्त्रं नाम च्छन्दः // 13 // पवन से सुखप्रद, और कल्याणकारी हो / अर्थात्-'मार्ग में इसे किसी प्रकार का भी कष्ट न हो'। यह वृक्षों की ओर से, तथा वनदेवताओं की ओर से, शकुन्तला को आशीर्वाद है // 12 // [सब-आश्चर्य चकित हो सुनते हैं / शाङ्गरव-( कोकिल के शब्द की सूचना देकर-) हे भगवन् ! वन में साथ ही रहने से बन्धु भाव को प्राप्त इन वृक्षों ने शकुन्तला को पति गृह' जाने की अनुमति दे दी है, क्योंकि इन्होंने मधुर एवं मनोहर यह कोकिल का शब्द ही अपने उत्तर में मानो उच्चारित किया है / ( कहा है ) // 13 //