________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 137 द्वितीयः--तेन हिनैतचित्रं यदयमुदधिश्यामसीमां धरित्री मेकः कृत्स्ना नगरपरिषप्रांशुबाहु नक्ति / आशंसन्ते समितिषु सुराः सक्तवैरा हि दैत्यै रस्याधिज्ये धनुषि विजयं, पौरुहूते च वज्रे // 16 // नैतदिति / यत्-नगरस्य परिघ इव प्रांशु = प्रलम्बौ बाहू यस्यासौ-नगरपरिघप्रांशुबाहुः = पुरद्वारार्गलदीर्घपीवरभुजदण्डः / अयम् = दुष्यन्तः। एकः = एकाकी खल्वयं दुष्यन्तः / [ उदधिरेव श्यामा, उदधिना श्यामेति वा / यद्वा श्यामश्चासावुदधिश्वोदधिश्यामः = कृष्णसागरः / राजदन्तादेराकृतिगणत्वाच्छयाम. शब्दस्य परप्रयोगः ] / उदधिना श्यामा सीमा यस्याः सा ता = उदधिश्यामायमानसीमां / समुद्रमेखलाम् / 'कृष्णसागरपर्यन्तामिति वाऽर्थः। समग्रां = निखिलां / धरित्री = भुवं / भुनक्ति = पालयति, एतन्न चित्रम् = न-आश्चर्यकारकम् / हि = यतः / दैत्यैः-दानवैः / सक्तवैराः = बद्धवैराः। देवाः = सुरा अपि / समितिषु = युद्धेषु / अस्य = दुष्यन्तस्य / अधिज्ये = समौर्वी के / धनुषि = कोदण्डे / पुरुहूतस्येदं-पौरुहूतं-तस्मिन् = इन्द्रसम्बन्धिनि / वज्र = कुलिशे च / विजयं = स्वकीयं जयम् / आशसन्ते = सम्भावयन्ति / अभिलषन्ति / न केवलं निखिलभूवलयपालकोऽयं, किन्तु-महेन्द्रसमपराक्रमो, देवानादूसरा-तो फिर इसमें कुछ भी आश्चर्य की बात नहीं है, कि-यह राजा जिसके लम्बे 2 भुजदण्ड नगर के द्वार की अर्गला ( आगल के दण्डों) के समान हैं-समुद्र पर्यन्त-सम्पूर्ण पृथिवी की इकल्ला ही रक्षा करता है, एवं उसका उपभोग करता है। क्योंकि-दैत्यों से वैर रखने वाले देवतागण भी युद्ध में क्या तो महेन्द्र के वज्र से, या इस राजा के चढ़े हुए धनुष से ही अपनी विजय की आशा करते रहते हैं। अर्थात्-यह राजा संपूर्ण पृथिवी का राज्य करता है-इसमें तो 1 कृष्णसागरः = 'काला सागर' / रूसदेशे 'ब्लेक-सी' इति प्रसिद्धः /