________________ 174 अभिज्ञानशाकुन्तलम्- [तृतीयोराजा-अहो ! 'विमर्शच्छेदि वचनम् / एतदेव कामफलं / यत्नफलमन्यत् / २एतदवस्थाऽपि मां सुखयति / प्रियंवदा-( जनान्तिकम्-) अणसूए ! दूरगदो से मणोरहो, अक्खमा इअं कालहरणस्स। - [( जनान्तिकम्-) अनसूये ! दूरङ्गतोऽस्या मनोरथः। अक्षमेयं कालहरणस्य ] / तच्छीलं-विमर्शच्छेदि = संशयनिरासकं / 'संशयच्छेदीति पाठेऽपि स एवार्थः / एतेन दृढं मे निश्चयो जातो यदियं मामवश्यमेव कृतार्थयिष्यतीति राज्ञ आशयः / एतदेव = उभयोस्तुल्या प्रीतिः। कामस्य फलं-कामकारितम् / स्मरकरणीयम् / अन्यत् = सङ्गमनादिकं तु / यत्नस्य = प्रयत्नस्यैव / फलं = कार्यम् / प्रीति. रेव कामजन्या, सङ्गमनादिकन्तु प्रयत्नसाध्यमिति भावः / एषा अवस्था यस्याः सा-एतदवस्था = कामशरसन्तप्ताङ्गयष्टिरपीयं / मां सुखयति = मां प्रीणाति / दूरं गतो-दूरगतः = अतिभूमिं गतः / परां काष्ठां गतः / मनोरथः = अनुरागः / कालस्य हरणं, तस्य कालहरणस्य = कालक्षेपस्य / विलम्बस्य / न क्षमते इत्यक्षमा = अयोग्या / प्रियसमागमे कालक्षेपे हीयं म्रियेतेत्याशयः। अद्ययावत् कामस्य राजा-अहो ! इसका यह वचन तो मेरे संशय को स्पष्ट ही दूर करने वाला है। यही तो काम का फल है और तो सब प्रयत्न का ही फल है / अर्थात् इसका मेरे प्रति ऐसा गाढ अनुराग ही काम ( मन्मथ ) का मुख्य फल है। मिलाप, सङ्गम आदि तो फिर प्रयत्न साध्य मात्र है / अहा ! इस प्रकार क्षीण अवस्था में होती हुई भी यह मुझे सुखी ही कर रही है। अर्थात् -मेरे सौभाग्य की यह पराकाष्ठा है, जो यह सुन्दरी मेरे ही कारण इस दशा को पहुँची है। प्रियंवदा-(अलग से) हे अनसूये ! इसकी इच्छा एवं इसकी कामवासना 1 'संशयच्छेदि' पा० / 2 'एतावदवस्था' पा० / 3 इह-'यस्मिन्बद्धभावा एषा, स ललामभूतः पौरवाणां, तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् / अनसूयातथा यथा भणसि / प्रियंवदा-(प्रकाश-) सखि ! दृष्टयाऽनुरूपस्तेऽभिनिवेशः, सागरमुज्झित्वा व वा महानदी अवतरति ? / क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते 1 / राजा-किमत्र चित्रं-विशाखे शशाङ्कलेखामनुवर्तते' / इति पा० /