________________ ऽङ्कः ] 8 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 113 अपचितमपि गात्रं व्यायतत्वादलक्ष्यं, गिरिचर इव नागः प्राणसारं बिभर्ति // 4 // अनवरतेति / गिरिषु चरतीति-गिरिचरः = शैलविहारी, नागः = कुञ्जर इव, देवः = राजा / भवान् / अनवरतं = निरन्तरं, धनुषः = शरासनस्य, ज्यायाः = मौाः , आस्कालनेन = समाकर्षणेन, क्रूर, वर्म = शरीरं यस्यासौ = निरन्तरधनुश्चालनव्यायामकठोरकायः / 'शरीरं वर्म विग्रहः' इत्यमरः। रवेः किरणान् सहते तच्छीलो-रविकिरणसहिष्णुः = प्रखरदिवाकरकिरणसहनशीलः / स्वेदस्य लेशैः-स्वेदलेशैः = धर्मजन्यप्रस्वेद कणैरपि, अभिन्नः = असंस्पृष्टः, अपचितमपि = कृशमपि / [ 'उपचित मिति पाठे-सुपुष्टमपि / मांसलमपीत्यर्थः ] / व्यायतत्वात् = व्यायामहढाङ्गत्यात् / ध्यायतं व्यापृते, दीर्घ, दृढे चातिशयेऽन्यवदिति मेदिनी। [उपचितमिति पाटे-व्यायतत्वात् = व्यायामशीलत्वात्-इत्यर्थः ] / अलक्ष्यम् = ज्ञातुमशक्यम् / प्राणः सारो यस्मिन् , तत् प्राणसारं = शरीरस्य कृशत्वेपि प्राणमात्रसारतया नितरां बलपूर्णम् / 'प्राणोऽनिले, बले' इति हैमः / 'सारो बले दृढांशे चेत्यमरः / दृढप्राणं वा / गात्रं = वपुः / 'गात्रं वपुः संहननम्' इत्यमरः / गजपक्षेऽपि-धनुषः = प्रियालतरोः / 'धनुस्सज्ञा प्रियालद्रौ, राशिभेदे, शरासने' इति विश्वः / ज्यायाः = भूमेः / 'ज्या-मौरी च, वसुन्धरे'ति धरणिः। आस्फालनेन = आकर्षणेन, घर्षणेन च, करं वपुः शरीरं यस्यासो, रविकिरणसहिष्णुः = आतपसहः / स्वेदलेशैरभिन्नः = प्रस्वेदशून्या, अपचितमपि = नातिस्थूलमपि / व्यायतत्वात् = दृढत्वात् , सन्नाहवत्त्वात् , अलक्ष्यम् = अज्ञात काश्य, गात्रं = वपु:रहा है / क्योंकि हमारे महाराज का तो,-- __ मृगया के कारण बराबर धनुष को चढ़ाते रहने से पूर्ण व्यायाम हो जाने से शरीर सुदृढ़ व कठोर हो गया है और सूर्य की प्रखर किरणों के सहन करने की क्षमता भी इनमें आ गई है। इनको परिश्रम से, तथा सूर्य के सन्ताप (घाम) से भी पसीने नहीं आते हैं / शरीर भी इनका यद्यपि परिश्रम से कृश हो गया है, पर गठा हुआ होने के कारण यह कृशता प्रतीत ही नहीं होती है / अतः जैसे वनचर हाथी का शरीर कृश होते हुए भी वह बड़ा बली और शक्ति सम्पन्न