________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 119 सेनापतिः-यथा प्रभविष्णवे रोचते। राजा-तेन हि निवर्त्तय पुरोगतान् धनुहिणः / यथा च मे सैनिकास्तपोवनं नाऽभिरुन्धति, दूरात् परिहरन्ति च, तथा निषेद्धव्याः / पश्यशमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः // स्पर्शानुकूला अपि सूर्यकान्तास्ते ह्यन्यतेजोऽभिभवादहन्ति // 7 // प्रभवति तत्साधुकारी-प्रभविष्णुः, तस्मै-प्रभविष्णवे = स्वामिने, भवते / यथा रोचते तथैवास्तु / 'तथा (मया) करणीय' मिति वा शेषः / पुरोगतान् = अग्रेगतान् / मृगयाव्यवस्थार्थ पुरो यातान् / धनुहिणः = धानुष्कान् / यथा तेदूरात् परिहरन्ति = दूरत एव त्यजन्ति, तथा निषेद्धव्याः = नियन्तव्याः / शमेति / हि = यतः-शम एव प्रधानं ये-तेषु शमप्रधानेषु = शान्तिप्रधानेषु, शान्तिकलितेष्वपि, शान्तेष्वपि, तपोवनेषु = आश्रमपदेपु, गूढं = प्रच्छन्नं, दाह एवात्मा यस्य तत्-दाहात्मकं = दाहस्वभावकं, तेजः = धाम / 'तेजो धाग्नि, पराक्रमे' इति विश्वः / अतो दूरत एव परिहरगीया आश्रमा इत्युपदिष्टं भवति / हि = यतः, स्पर्शस्यानुकूला:-स्पर्शानुकला-अपि = स्पर्शसहा अपि, सूर्यकान्ताः = सूर्यकान्तमणयः, ( 'ये भवन्तीति शेषः / तेऽपि,-) अन्यस्य तेजसाअभि = सर्वतः, भवनं = प्राप्तिः, तस्मात्-अन्यतेजोऽभिभवात् = अन्यतेजसा समाक्रमणात्, दहन्ति = अग्निं वमन्तो दाहसमर्था भवन्ति / [ एवञ्च बहिः सुख सेनापति-जैसी प्रभु की ( महाराज की ) रुचि और इच्छा हो वही ठीक है। राजा-तो फिर शिकार की खोज में आगे गए हुए धनुर्धरों को तुम वापिस बुलालो / और हमारे सैनिक इस तपोवन में कुछ भी गड़बड़ी व उत्पात न करें, और तपोवन से दूर ही रहें-ऐसा हमारा हुक्म सबको सुना दो / क्योंकि देखो शान्तिप्रधान तपोवनों में भी दाहात्मक गुप्त तेज ( अग्नि ) रहता है। क्योंकि सूर्यकान्तमणि छूने योग्य व ठण्डे होते हुए भी दूसरे के तेज से ( सूर्य की किरणों से ) अभिभूत ( आक्रान्त ) होते ही जल उठते हैं और जलाने लगते