________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 133 विदषकः-को अवरो अवदेसो, णं भवं राआ / [ कोऽपरोऽपदेशो, ननु भवान् राजा] / राजा-ततः किम् ? / विदूषकः-'णीवारच्छट्ठभाअं तावसा मे उवहरन्तु' त्ति / ['नीवारषष्ठभागं तापसा में उपहरन्तु'-इति ] / राजा-मूर्ख ! अन्यमेव भागधेयमेते तपस्विनो मे निवपन्ति, यो रत्नराशीनपि विहायाऽभिनन्द्यते / पश्य यदुत्तिष्ठति वर्णेभ्यो नृपाणां, क्षयि तद्धनम् / तपाषड्भागमक्षय्यं ददत्यारण्यका हि नः // 14 // संनिहितो मृगयाविहारी राजा दुष्यन्तः' इत्यादि तपस्विभिर्भाषितम् / अतो विना प्रयोजनं तत्र गमनमिदानीं मम न सम्भाव्यते, राज्ञस्तथाऽनौचित्यात् / अपदेशेन = व्याजेन / 'व्याजोऽपदेशो लक्षञ्चे'त्यमरः / तावता किं निष्पन्नम् ?, इत्यत आह-नीवाराणां = तृणधान्यानां / षष्ठं भाग= राजदेयं करस्वरूपं षष्ठमंशं / तदुक्तं मनुना-'धान्यानामष्टमो भागः, षष्ठो, द्वादश एव वेति / ___ अन्यं = धान्यषष्ठभागातिरिक्तं तपोरूपं / भागधेयं = करं / 'भागधेयः करो बलिः' इत्यमरः / निर्वपन्ति = समर्पयन्ति / रत्नानां राशीनपि विहाय =महार्हरत्नजातमप्यविगणय्य / अभिनन्द्यते = राजभिःप्रशस्यते / एतेहि तापसा नीवारषष्ठांशापेक्षयाऽभिनन्दनीयं स्वपुण्यभागं मे स्वयमेव वितरन्ति, अंतो रत्नप्रदात्काचयाचन मिव, तेभ्यो नीवारभागयाचनमिति भावः / पश्य = विचारय / यदुत्तिष्ठतीति / वर्णेभ्यः = विदूषक-दूसरे बहाने के ढूंढने की भला क्या आवश्यकता है, यही क्या कम है, कि-आप यहाँ के राजा हैं। राजा-तो फिर राजा होने से ही क्या हुआ ? / विदूषक-यहो कि-'अपने भोज्य नीवार ( तिन्नी के चावलों) में से राजग्राह्य कर (छठा हिस्सा) तपस्वी लोग मुझे दें। राजा-अरे मूर्ख, ये तपस्वी तो मुझे सः श्रेष्ठ पुण्यका सर्वोत्तम भाग कर स्वरूप में देते हैं, जिसे राजा लोग रत्नों की राशि से भी अधिक पसन्द करते हैं। देखो