________________ 108 अभिज्ञानशाकुन्तलम् [ द्वितीयोविदूषकः-जुत्तं णाम एव्वं-जं तुए रज्जकजाई उज्झिअ, तादिसं अक्खलिदपदं पदेसं च, बणचलवित्तिणा होदव्यंत्ति / किं इस्थ मन्तीअदु / अहं उण ब्रह्मणो पञ्चहं सापदाणुसरणेहिं संक्खोहिदसन्धिबन्धणाणं अत्तणो अङ्गाणं अणीसोहि / ता पसीद मे, एक्काहम्बि दाव विसमीअदु / [युक्तं नामैवं,-यतस्त्वया राजकार्याणि उज्झित्वा तादृशमस्खलितपदं प्रदेशश्च, वनचरवृत्तिना भवितव्यमिति ! / किमत्र मन्त्र्यताम् / __ अहं पुनर्ब्राह्मणः प्रत्यहं श्वापदानुसरणैः संक्षोभितसन्धिबन्धनानामात्मनोऽङ्गानामनीशोऽस्मि / तत् प्रसीद मे, एकाहमपि तावद्विश्रम्यताम्]। एवम् = इदं मृगयाचरणं / युक्तं नाम = कथंचित् युक्तिसङ्गतं तव भवेदपि / उज्झित्वा = विहाय / अस्खलितं पदं यत्र तत् = समतलं / समतलतया पादस्खलनाऽभावात् / प्रदेश = भूभागं च उज्झित्वा / राजधानी विहायेत्यर्थः / राज्यं वा उज्झित्वेति योजनीयम् / राज्यमपि-अस्खलितपदं = बद्धमूलं, वंशानुयातञ्च / वनचरवृत्तिना भवितव्यं = तव वनचरवदितस्ततोऽरण्ये धावनं कथञ्चित्सम्भवति / किमत्र मन्त्र्यताम् = किमत्र विचारणया / परिभ्राम्यतु भवान् वनमनिशं, किमत्राऽ. स्माकं कथनेनेत्यर्थः / किन्तु अहं पुनः = अहं पुनर्ब्राह्मणो नाम भूत्वा [ न हि खलु मम मृगया भवति सह जस्नेहभाजनम् ] / श्वापदानां = हिंस्रजन्तूनां सिंहादीनाम् / अनुसरणैः = अनुगमनैः / संशोभितानि सन्धिबन्धनानि येषां तेषां = विश्लथतराणाम् , अङ्गानां = करचरणा विदूषक-आपका तो यह काम कदाचित् ठीक हो भी सकता है, जो आप-राजकार्य को छोड़कर, तथा अपने वंश परम्परा से प्राप्त निष्कण्टक, सर्वसुख युक्त राज्य को, तथा राजधानी को भी छोड़कर, शिकार के लिए यो जङ्गली कोलभीलों की तरह जङ्गलों में मारे 2 फिर रहे हो। क्या कहा जाए। और इसमें नाहीं करने से भी आप मानेगे थोड़े ही / अतः शिकार के लिए हमारा आपको नाहीं करना भी व्यर्थ ही है। परन्तु मैं तो ब्राह्मग हूँ, मेरे तो प्रतिदिन जङ्गली जानवरों के पीछे 2 इस प्रकार दौड़ने से, हाथ पैर ही ढोले हो गए हैं / जोड़ 2 में दर्द हो रहा है / चलना-फिरना, हाथ उठाना भी कठिन हो गया है। हाथ