________________ 182 अभिज्ञान-शाकुन्तलम्- [द्वितीयो कृतोऽस्मि / एतावताऽपि में पीडा न संवृत्ता, यतोऽयं गण्डस्योपरि' विस्फोटकः संवृत्तः। तेन हि किलाऽस्मास्ववहीनेषु तत्रभवता मृगानुसारिणाऽऽश्रमपदं प्रविष्टेन ममाऽधन्यतया शकुन्तला नाम कापि तपस्विकन्यका दृष्टा / तां प्रेक्ष्य साम्प्रतं नगरगमनस्य कथामपि न करोति / एवमेव चिन्तयतो में प्रभाता अक्ष्णो रजनी / का गतिः ? / यावदेनं कृताऽऽचार. [ तदर्थं वा-] यः कोलाहलः = कलकलः, तेन / प्रतिबोधितः = निद्रादरिद्री_एतावताऽपि = इत्थं-कष्टप्रदाऽऽयासप्रतिहतस्यापि, पीडा संवृत्ता = नैतावताऽप्यनर्थपरम्परा शाम्यति / 'अयं वक्ष्यमाणः, शकुन्तलाशक्तिरूपः / गण्डस्य = विस्फोटकस्य, उपरि / विस्फोटकः = पिटकः, व्रणोपरि व्रणो जातः / दुःखेऽपि दुःखमुत्पन्नमित्याशयः / 'गण्डः = कपोल' इति व्याख्यानं तु न प्रकृतानुगुणमितिमर्मज्ञाः / 'गण्डोपरि विस्फोटक' इत्याभाणकं हि ( कहावत ) लोकविदितमेव / __ 'गण्डः स्यात्पुंसि खङ्गिनि / ग्रहयोगप्रभेदे च, वीथ्यङ्गे, पिटकेऽपि / चिह्नवीरकपोलेषु हयभूषणबुद्धदे'-इति मेदिनी / पिटकः = विस्फोटकः / 'फोडा' इति भाषा। किन्तदित्याह--तेनेति / तेन = राज्ञा, अवहीनेषु = आखेटके पश्चादेव विश्लिष्टेषु, मृगानुसारिणा = मृगमनुधावमानेन, आश्रमपदं = तपोवनभूमि, ममाऽधन्यतया = मद्दौर्भाग्यविजम्भणेन, साम्प्रतम् = इदानीं, कथां वार्तामपि, अक्ष्णोः = नेत्रयोरेव / [ असुप्तस्यैव ] / रजनी = रात्रिः। प्रभाता= व्युष्टा / गतेति यावत् / के पीछे 2 आश्रम में जाकर इस राजा दुष्यन्त ने, हमारे दुर्भाग्य से, शकुन्तला नाम की किसी तापस कन्या को देख लिया है / और उसको देखकर यह राजा अब अपनी राजधानी को वापिस जाने की बात भी नहीं करता है। इसी प्रकार चिन्ता करते 2 मुझे रात को नींद भी नहीं आई। जागते ही जागते सबेरा हो गया। [पाठान्तर में उसी शकुन्तला की चिन्ता में इस राजा को रात में भी निद्रा नहीं आती है। आज जागते ही जागते इसकी रात बीती है। 1 'अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत्' पा० /