________________ ऽङ्कः] 7 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् मम हिगच्छति पुरः शरीरं, धावति पश्चादसंस्तुतं चेतः / चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य // 36 // ( इति निष्क्रान्ताः-सर्वे) __इति प्रथमोऽङ्कः। गच्छतीति / शरीरं = मम वपुः, पुरः = अग्रे, गच्छति = शनैः शनैः कथञ्चिद्याति, चेतः = मम चित्तन्तु, वातस्याभिमुखं-प्रतिवातं = वायुसंमुखं / 'लक्षणेनाभिप्रती' इत्यव्ययीभावः / नीयमानस्य = प्राप्यमाणस्य, चाल्यमानस्य, केतोः = ध्वजस्य, चीनांशुकमिव = पट्टवस्त्रमित्र, . असंस्तुतमिव = शरीरेणाऽपरिचितमिव, पश्चात् = शकुन्तलाभिमुखं, धावति = तामनुसरति, सत्वरमुपयाति / एतेन स्वचेतसश्वाञ्चल्यं, वपुषो हृदयशून्यत्वात्काष्ठतुल्यत्वं च ध्वनितम् / / [शरीरमनसोः सम्बन्धेऽपि असम्बन्धकथनादतिशयोक्तिः / 'अपरिचितमिवे'त्युत्प्रेक्षा, 'चीनांशुकमिवेत्युपमा, वृत्त्यनुप्रासश्च ] // 36 // निष्क्रान्ताः सर्व इति / 'पात्रैस्त्रिचतुरैरङ्क, तेषामन्तेऽस्य निर्गमः' इति दशरूपके, 'अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः' इति दर्पणे च प्रतिपादनादकान्ते सर्वपात्रनिर्गम उपनिबद्धः / तपोवनावरोधस्य साक्षाददर्शनीयतयाऽङ्कान्ते निबन्ध इत्यत्राऽङ्कसमाप्तिः / तदुक्तं धनिकेन 'दूरावानं, वधं, युद्धं, राज्यदेशादिविप्लवम् / संरोध, भोजनं, स्नानं, सुरतं चानुलेपनम् / / शस्त्रस्य ग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।।'-इति / मेरा तो यद्यपि शरीर आगे की ओर चल रहा है, परन्तु बेवश हुआ मेरा मन तो पीछे की ओर (शकुन्तला की ओर ) उसी प्रकार दौड़ रहा है, जिस प्रकार हवा से विपरीत दिशा में ले जाई जानेवाली ध्वजा का पतला कपड़ा पोछे की ही ओर दौड़ता ( फहराता ) है। ध्वजा को पूर्व की ओर ले जावें और पूर्व से ही 1 'असंस्थितं।