________________
प्र० श्लो० ]
प्रतिज्ञाश्लोकः ।
सिद्धिरसतेः प्रादुर्भावोऽभिलषितंप्राप्तिर्भावशतिश्चोच्यते । तत्र शापैकप्रकरणाद् असतः प्रादुर्भावलक्षणा सिद्धिर्नेह गृह्यते । समीचीना सिद्धिः संसिद्धिरर्थस्य संसिद्धि: 'अर्थसंसिद्धि:' इति । अनेन कारणान्तरा हित विपर्यासादिज्ञाननिबन्धनाऽर्थसिद्धिर्निरस्ता । जातिप्रकृत्यादिभेदेनोपकारकार्थसिद्धिस्तु संगृहीता; तथाहि - केवल ५ निम्बलवणरसादावस्मदादीनां द्वेषबुद्धिविषये निम्बकीटोष्ट्रादीनां जात्याऽभिलाषबुद्धिरुपजायते अस्मदाद्यभिलाषविषये चन्दनादौ तु तेषां द्वेषः, तथा पित्तप्रकृतेरुष्णस्पर्शे द्वेषो वातप्रकृतेरभिलाषःशीतस्पर्शे तु वातप्रकृतेद्वेषो न पित्तप्रकृतेरिति । न चैतज्ज्ञानमसत्यमेव-हितीऽहितप्राप्तिपरिहारसमर्थत्वात् प्रसिद्धसत्यज्ञानवत् । १० हिताऽहितव्यवस्था चोपकारकत्वापकारकत्वाभ्यां प्रसिद्धेति । तदिव स्वपरप्रमेयस्वरूपप्रतिभासिप्रमाणमिवाभासत इति तदाभौसम् - सकलमतसम्मैताऽवबुद्ध्यक्षणिकाद्येकान्ततत्त्वज्ञानं सन्नि कर्षा विकल्प - ज्ञानाऽप्रत्यक्षज्ञानज्ञानान्तरप्रत्यक्षज्ञानाऽनाप्तप्रणीताssiमाऽविनाभाव विकललिङ्गनिबन्धनाऽभिनिबोधादिकं सं १५ शयविपर्यासानध्यवसायज्ञानं च तस्माद् विपर्ययोऽभिलषितार्थस्य स्वर्गापवर्गादेरनवद्यतत्साधनस्य वैहिकसुखदुःखादिसाधनस्य वा सम्प्राप्तिज्ञप्तिलक्षणसमीचीन सिद्ध्यभावः । प्रमाणस्य प्रथमतोऽभिधानं प्रधानत्वात् । न चैतदसिद्धम् ; सम्यग्ज्ञानस्य निश्श्रेयस प्राप्तेः सकलपुरुषार्थोपयोगित्वात्, निखिलप्रयासस्य प्रेक्षा- २० वतां तदर्थत्वात्, प्रमाणेतर विवेकैस्यापि तत्प्रसाध्यत्वाच्च । तदाभासस्य तूक्तप्रकाराऽसम्भवादप्राधान्यम् । 'इति' हेत्वर्थे । पुरुपार्थसिद्ध्यसिद्धिनिबन्धनत्वादिति हेतोः 'तयो:' प्रमाणतदाभासयो 'लक्ष्म' असाधारणस्वरूपं व्यक्तिभेदेर्ने तज्ज्ञप्तिनिमित्तं लक्षणं
१८
२२
1
१ यथा कुलालाद्धटसिद्धि: । २ पदार्थ | ३ त्रिष्वर्थेषु मध्ये । ४ प्रमाणादर्थसंसिद्धिरिति । ५ षष्ठी । ६ शापकपक्षस्य प्रकरणात् प्रस्तावात् । ७ चक्षुरादिकारणादन्यत्कारणं काचका मलादिमिथ्यात्वादि वा कारणान्तरम् । ८ अवस्था क्षेत्रकालादि वा । ९ अन्यरस संयोगरहित । १० उष्टादिजात्या कृत्वा । ११ निम्बकीटकस्य निम्बः कटुकोsपि हितत्वात् स एव रोचते । १२ वैनयिकवादिज्ञानम् । १३ सकलमतानि सम्मतानि यस्य स सकलमतसम्मतो विनयवादी तस्यावबुद्धिर्ज्ञानं तदाभासमित्यर्थः । १४ निर्विकल्पक | १५ अपौरुषेय । १६ अनुमान । १७ लिङ्गाभिमुखनियतस्य fofrat बोधनं वा । १८ उपमानार्थापत्त्यभावप्रमाणानि । १९ घटते । २० मर्या
यां (का पञ्चमी) । २१ मेदस्य । २२ ' तावेवंप्रकारादौ व्यवच्छेदे विपर्यये । afraid समाप्तौ च इतिशब्दः प्रकीर्तितः' । २३ तदाभासेभ्यः । २४ व्यक्तिभेदेसाधारणत्वं स्वव्यत्तयभेदेन साधारणत्वमिति स्याद्वादसिद्धिः ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org