________________
१०३
सू० ११७] साकारज्ञानवादः बिम्बासम्भवात् । तथा हि-न विषयाकारधारिणी बुद्धिरमूर्तत्वादाकाशवत्, यत्तु विषयाकारधारि तन्मूर्त यथा दर्पणादि । न चासिद्धो हेतुः; तस्याः सकलवादिभिरमूर्त्तत्वाभ्युपगमात् । अन्यथा वाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गो दर्पणादिवदेव । अतिसूक्ष्मत्वात्तदप्रत्यक्षत्वे तद्गतार्थप्रतिबिम्बप्रत्यक्षतापि न स्यात् । मूर्तस्य५ चेन्द्रियादिद्वारेणैव संवेदनसम्भवात् । तदभावेऽसंविदितत्वप्रसङ्गश्च । सर्वथा परोक्षत्वाभ्युपगमे चास्या मीमांसकमतानुषङ्गः॥ छ॥
एतेन वाद्धोप्याकारवत्वेने ज्ञाने प्रामाण्यं प्रतिपादयन्प्रत्याख्यातः । प्रत्यक्षविरोधाच्च प्रत्यक्षेण विषयोंकाररहितमेव ज्ञानं १० प्रतिपुरुषमहमहमिकया घंटादिग्राहकमनुभूयते न पुनर्पणादिवत्प्रतिबिम्बाकान्तम् । विषयाकारधारित्वे , ज्ञानस्यार्थे दूरनिकटादिव्यवहाराभावप्रसङ्गः। न खलु स्वरूपे स्वतोऽभिन्नेऽनुभूयमाने सोस्ति, न चैवम् ; 'दूरे पर्वतो निकटे मदीयो बाहुः' इति व्यवहारस्याऽस्खेलद्रूपस्य प्रतीतेः। ततस्तदन्यथानुपपत्तेनि- १५ राकारं तत् । न चाकाराधायकस्य दूरादितया तथा व्यवहारो
१ हेतोः । २ पदार्थस्य। ३ किञ्च । ४ आलोकादि । ५ किञ्च । ६ बुद्धेविषयाकारधारित्वनिराकरणपरेण ग्रन्थेन । ७ योगाचारः। ८ सौत्रान्तिकः (१) । ९ पदार्थस्य । १० किञ्च । ११ सौत्रान्तिकः (१)। १२ स्वसंवेदनेन । १३ अर्थ । १४ पदार्थ । १५ स्वयं ज्ञानेन। १६ किञ्च । १७ दूरनिकटादिव्यवहारः। १८ अस्त्वेवमिति चेत् । १९ अव्यभिचरत् । २० प्रतिभासनात् । २१ साकारत्वे दूरनिकटादिव्यवहारो न घटते यतः। २२ समर्पकस्य पदार्थस्य ।
1
"स्वसंवित्तिः फलञ्चास्य ताद्रूप्यादर्थनिश्चयः ।
विषयाकार एवास्य प्रमाणं तेन मीयते ॥" प्रमाणसमु. १।१०। "अर्थसारूप्यमस्य प्रमाणम् ।" न्यायबि० १११९ ।
"दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते। तत्स्यादालोकभेदाच्चेत् तत्पिधानापिधानयोः ॥ तुल्या दृष्टिरदृष्टिा सूक्ष्मोंशस्तस्य कश्चन । आलोकेन न मन्देन दृश्यतेऽतो भिदा यदि ॥"
प्रमाणवा० ३१४०८-९। "स्वतोऽभिन्नस्य चाकारस्य ज्ञानग्राह्यत्वे अथें दूरातीतादिव्यवहारो न स्यात् ।"
न्यायकुमु० पृ० १६९।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org