________________
३६४ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० विभागः? अथाऽसद्वर्गशब्देन सामान्यसमवायान्त्यविशेषा एवोच्यन्ते, नाभावः, तर्हि तद्विषयं ज्ञानं न कस्यचिदनेन प्रसाधित. मिति सुव्यवस्थितम् ईश्वरस्याखिलकार्यकारणग्रामपरिज्ञानम् ! प्रागभावाद्यज्ञाने कार्यत्वादेरेप्यज्ञानात् । ५ किञ्च, यद्यभावोऽत्र पक्षसपक्षाभ्यां बहिर्भूतः तमुनेनानेकत्वादित्यनैकान्तिको हेतुः, तदनेकत्वेपि कस्यचिदेकज्ञानावलम्बनत्वानभ्युपगात् । अभ्युपगमे वा कथमभावो न पक्षः ? तथा विपक्षोप्यस्तु । नन्वेवं विपक्षाभावोपि तदालम्बनमिति पक्ष एव
स्यात् , तथा च पुनरपि विपक्षाभाव एव इति चेत्, तर्हि पुनरपि १० तदेव चोद्यम्-'कोयं विपक्षाभाव इति ? यदि पक्षसँपक्षावेव
भावाद्भिन्नस्याभावस्याभावः। - अथ तुच्छा विपक्षनिवृत्तिस्तदभावः; सोपि यद्यप्रतिपन्नस्तर्हि सन्दिग्धः। तत्सन्देहे च व्यतिरेकामावोपि तागेवेति न निश्चितः
केवलान्वयः' इत्यादि तदवस्थं पुनः पुनरावर्त्तते इति चक्रक१५ प्रसङ्गः । ततः केवलान्वयित्वेनाभ्युपगतस्य विपक्षाभाव एव
तुच्छो विपक्षः। ततः साध्यनिवृत्त्या साधननिवृत्तिश्चेति कथं न व्यतिरेकः ? अंत एवाविनाभावस्य तत्परिज्ञानस्य च प्राणादिमत्त्ववद्भावात्किमन्वयेन ?
अथ विपक्षाभावस्यौपादानत्वायोगान्न ततः साध्यसाधनयो२० यावृत्तिः, तन्न; 'भावः प्रागभावादिभ्यो भिन्नस्ते वा परस्परतो भिन्नाः' इत्यादावप्यभावस्यापादानत्वाभावप्रसङ्गात् सर्वेषां साङ्कर्य स्यात् ।
किञ्च, अन्वयो व्याप्तिरभिधीयते । सा च त्रिधा-बहिर्व्याप्तिः, साकल्यव्याप्तिः, अन्तर्व्याप्तिश्चेति । तत्र प्रथमव्याप्तौ भग्नघटव्यति२५ रिक्तं सर्व क्षणिकं सत्त्वात्कृतकत्वाद्वा तद्वत् , विवादापन्नाः प्रत्यया
१ ये सत्तासम्बन्धात्सन्तस्ते सद्वर्गवाच्याः । ये तु स्वतः सन्तस्ते असद्वर्गशब्दवाच्या इत्यर्थः । २ अनेकत्वादित्यनेन अनुमानेन। ३ उपहासः। ४ प्रागसत्कार्य यस्मिन् कपाले उत्पन्ने यस्य वस्तुनो घटलक्षणस्य नियमेन प्रध्वंसस्तत्कारणम्। ५ कारणत्वस्य । ६ प्रागभावादिरूपः। ७ अनुमाने। ८ अभावस्यैकभावावलम्बनत्वम् । ९ तुच्छरूपोऽभावः। १० अभावस्य विपक्षतासद्भावप्रकारेण। ११ विपक्षश्चासावभावश्चेति । १२ एकज्ञानरूपः। १३ पूर्वोक्तमेव । १४ विपक्षाभावस्तहि । १५ सा प्राक्तनी अवस्था यस्य । १६ ग्रन्थचक्रक। १७ हेतोः। १८ व्यतिरेकसद्भावादेव । १९ ईबथें वत्। २० अनेकत्वादिगतेन । २१ तुच्छरूपत्वादपादानत्वायोगः। २२ भावाभावानां प्रागभावादीनां भावाभावादीनाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org