Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 833
________________ सू० ६१७३] जय-पराजयव्यवस्था "विज्ञातस्य परिषदा त्रिरभिहितस्याऽप्रत्युच्चारणमननुभाषणम् ।” [न्यायसू०५।२।१६] अप्रत्युच्चारयन्किमाश्रयं परपक्षप्रतिषेधं ब्रूयात् ? इत्यत्रापि किं सर्वस्य वादिनोक्तस्याननुभाषणम् , किं वा यन्नान्तरीयिका साध्यसिद्धिस्तस्येति ? तत्राद्यः पक्षोऽयुक्तः, परोक्तमशेषमप्रत्युच्चारयतोपि दूषणवचनाऽव्याघातात् । यथा 'सर्वमनित्यं सत्त्वात्' इत्युक्ते 'सत्त्वात् इत्ययं हेतुर्विरुद्धः' इति हेतुमेवोच्चार्य विरुद्धतोद्भाव्यते-'क्षणक्षयायेकान्ते सर्वथार्थक्रियाविरोधात्सत्त्वानुपपत्तेः' इति, समर्थ्यते च, तावता च परोक्तहेतो. र्दूषणाकिमन्योच्चारणेन ? अंतो यन्नान्तरीयिका साध्यसिद्धिस्त. स्यैवाऽप्रत्युच्चारणमननुभाषणं प्रतिपत्तव्यम् । अथैवं दूषयितुम.१० समर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्वात्; तदाऽयमुत्तराऽप्रतिपत्तेरेव तिरस्क्रियते न पुनरननुभाषणादिति । __"अविज्ञातं चाज्ञानम् ।" [न्यायसू० ५।२।१७ ] विज्ञातार्थस्य परिषदा प्रतिवादिना यदविज्ञातं(न)तदज्ञानं नाम निग्रहस्थानम् । अजानन् कस्य प्रतिषेधं ब्रूयात् ? इत्यप्यसारम् प्रतिज्ञाहान्यादि-१५ निग्रहस्थानानां भेदाभावानुषङ्गात् तंत्राप्यज्ञानस्यैव सम्भवात् । तेषां तत्प्रभेदत्वे वा निग्रहस्थानप्रतिनियमासावप्रसङ्गः परोक्तस्या ज्ञानादिभेदेन निग्रहस्थानानेकत्वसम्भवात् । "उत्तरस्याप्रतिपत्तिरप्रतिभा।" [ न्यायसू० ५।२।१८] साप्यज्ञानान्न भिद्यत एव। २० "निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ।" [ न्यायसू० ५।२।२१] पर्यनुयोज्यो हि निग्रहोपपत्त्या चोदनीयस्तस्योपेक्षणं 'निग्रहं प्राप्तोसि' इत्यननुयोग एव । एतच्च 'कस्य पराजयः इत्यनुयुक्तया परिषदा वचनीयम् । न खलु निग्रहप्राप्तः खं कौपीनं विवृणुयात् । इत्यप्यज्ञानान्न व्यतिरिच्यत एव । "अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः ।" [न्यायसू० ५।२।२२] तस्याप्यज्ञानात्पृथग्भावोनुपपन्न एव ।। १ वादिना । २ प्रतिवादिना । ३ प्रतिवाधुक्तस्य । ४ प्रतिवादिना। ५ अन्यत् धर्मिसाध्यादि । ६ सर्वस्य वादिनोक्तस्याननुभाषणं न घटते यतः । ७ परेण । ८ हेतू. च्चारणं कृत्वा । ९ प्रतिवादी। १० प्रतिवादी। ११ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविशातं तदशानं नाम । १२ प्रतिवादी। १३ आदिना अर्धा दिप्रहः । १४ प्राप्तदोषानुद्भावनं पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानम् । १५ प्रतिवादिनः । १६ इदं ते निग्रहस्थानमायातमतो निग्रहीतोसीति वचनीयः। १७ पृष्टया। १८ गुह्यम् । १९ दोषरहिते दोषोद्भावनं निरनुयोज्यानुयोगो नाम निग्रहस्थानम् । For Personal and Private Use Only Jain Educationa International www.jainelibrary.org

Loading...

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920