Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 855
________________ सू० ६/७४]. पत्रविचारः ६९१ अथान्यार्थसम्भवेपि यस्तदवलंम्बिनेष्यते स एव तदर्थः। कुत एतत् ? ततः प्रतीतेश्चेत्, अन्योप्यत एव स्यात् । अथ ततः प्रतीयमानत्वाविशेषेपि यस्तेनेष्यते स एव तदर्थो नान्यः, ननु शब्दः प्रमाणम् , अप्रमाणं वा? प्रमाणं चेत्, तर्हि तेन यावानर्थः प्रदर्श्यते स सर्वोपि तदर्थ एव । न खलु चक्षुषानेकस्मिन्नर्थे ५ घटादिके प्रदर्श्यमाने 'तद्वता य इष्यते स एव तदर्थो नान्यः' इति युक्तम् । अथाप्रमाणम् । तर्हि तेनेष्यमाणोपि नार्थः। न हि द्विचन्द्रादिकस्तद्दर्शिनेष्यमाणोर्थो भवितुमर्हति, अन्यथा परेणेष्यमाणोप्यर्थो किं न स्यात् । तन्नायमपि पक्षो युक्तः।। ततो यः प्रतीयते तदातुश्चेतसि च वर्तते स तदर्थः, इत्यत्रापि-१० केनेदद्मवगम्यताम् वादिना, प्रतिवादिना, प्राश्निकै ? तत्राद्यविकल्पे प्रतिवादिना वादिमनोर्थानुकूल्येन पत्रे व्याख्याते वादिना तथावधारितेपि स वैयात्याद्यदैवं वदति 'नायमस्यार्थो मम चेतस्यन्यस्य वर्तनात्, विपरीतप्रतिपत्तेर्निगृहीतोसि' इति तदा किं कर्तव्यं प्राश्निकैः ? तथाभ्युपगमश्चेत्, महामध्यस्थास्ते यत्सदर्थ-१५ प्रतिपादकस्यापि प्रतिवादिनो निग्रहं व्यवस्थापयन्ति वाद्यभ्युपगममात्रेण । न तावन्मात्रेणास्य निग्रहोऽपि तु यदा वादी खमनोगतमर्थान्तरं निवेदयतीति चेत्, ननु 'तेन निवेद्यमानमर्थान्तरं पत्रस्याभिधेयम्' इति कुतोऽवगम्यताम् ? तदप्रातिकूल्येन निवेदनाच्चत्; तत एव प्रतिवादिप्रतिपाद्यमानोप्यर्थस्तदभिधेयोस्तु २० विशेषाभावात् । वादिचेतस्यऽस्फुरणान्नेति चेत्, इद्मपि कुतोऽवगम्यताम् ? तत्रार्थदर्शनाचेत्, किं पुनस्तञ्चेतः प्राश्निकानां प्रत्यक्षं येनैवं स्यात् ? तथा चेत् अतीन्द्रियार्थदर्शिभिस्तर्हि प्राश्निकैर्भवितव्यं नेतरपण्डितैः। तथा च प्रत्यक्षत एव वादिप्रतिवादिनोः सारेतरविभागं विज्ञायोपन्यासमन्तरेणैव जयेतरव्यवस्थां२५ रचयेयुः । नो चेत्कथं तत्र कस्यचित्स्फुरणमस्फुरणं वा ते प्रतियन्तु ? न ह्यप्रतिपन्नभूतलस्य 'अत्र भूतले घटोस्ति नास्ति' इति वा प्रतीतिरस्ति । अथ स्वयमेव यदासौ वदति-'ममायमों मनसि वर्तते नायम्' इति तदा ते तथा प्रतिपद्यन्त; न; तदापि संदेहात्-"किं प्रतिवादिना योर्चा निश्चितः स एवास्य मनसि ३० वर्तते शब्देन तु वदति नायमर्थो मम मनसीति किन्त्वन्य एव-यो मया प्रतिपाद्यते, उतायमेव, इति न निश्चयहेतुः। दृश्यन्ते ह्यने १ वादिना । . २ पत्रं गृहीत्वा। ३ पत्रात् । ४ धार्थ्यात् । ५ पत्रस्य । ६ स्वीकर्तव्यः । . ७ वादी। ८ प्रतिवादिनिगद्यमानार्थस्य वादिचेतसि स्फुरणास्फुरणप्रकारेण। ९ इति चेदिति शेषः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920