________________
सू० ६/७४]. पत्रविचारः
६९१ अथान्यार्थसम्भवेपि यस्तदवलंम्बिनेष्यते स एव तदर्थः। कुत एतत् ? ततः प्रतीतेश्चेत्, अन्योप्यत एव स्यात् । अथ ततः प्रतीयमानत्वाविशेषेपि यस्तेनेष्यते स एव तदर्थो नान्यः, ननु शब्दः प्रमाणम् , अप्रमाणं वा? प्रमाणं चेत्, तर्हि तेन यावानर्थः प्रदर्श्यते स सर्वोपि तदर्थ एव । न खलु चक्षुषानेकस्मिन्नर्थे ५ घटादिके प्रदर्श्यमाने 'तद्वता य इष्यते स एव तदर्थो नान्यः' इति युक्तम् । अथाप्रमाणम् । तर्हि तेनेष्यमाणोपि नार्थः। न हि द्विचन्द्रादिकस्तद्दर्शिनेष्यमाणोर्थो भवितुमर्हति, अन्यथा परेणेष्यमाणोप्यर्थो किं न स्यात् । तन्नायमपि पक्षो युक्तः।।
ततो यः प्रतीयते तदातुश्चेतसि च वर्तते स तदर्थः, इत्यत्रापि-१० केनेदद्मवगम्यताम् वादिना, प्रतिवादिना, प्राश्निकै ? तत्राद्यविकल्पे प्रतिवादिना वादिमनोर्थानुकूल्येन पत्रे व्याख्याते वादिना तथावधारितेपि स वैयात्याद्यदैवं वदति 'नायमस्यार्थो मम चेतस्यन्यस्य वर्तनात्, विपरीतप्रतिपत्तेर्निगृहीतोसि' इति तदा किं कर्तव्यं प्राश्निकैः ? तथाभ्युपगमश्चेत्, महामध्यस्थास्ते यत्सदर्थ-१५ प्रतिपादकस्यापि प्रतिवादिनो निग्रहं व्यवस्थापयन्ति वाद्यभ्युपगममात्रेण । न तावन्मात्रेणास्य निग्रहोऽपि तु यदा वादी खमनोगतमर्थान्तरं निवेदयतीति चेत्, ननु 'तेन निवेद्यमानमर्थान्तरं पत्रस्याभिधेयम्' इति कुतोऽवगम्यताम् ? तदप्रातिकूल्येन निवेदनाच्चत्; तत एव प्रतिवादिप्रतिपाद्यमानोप्यर्थस्तदभिधेयोस्तु २० विशेषाभावात् । वादिचेतस्यऽस्फुरणान्नेति चेत्, इद्मपि कुतोऽवगम्यताम् ? तत्रार्थदर्शनाचेत्, किं पुनस्तञ्चेतः प्राश्निकानां प्रत्यक्षं येनैवं स्यात् ? तथा चेत् अतीन्द्रियार्थदर्शिभिस्तर्हि प्राश्निकैर्भवितव्यं नेतरपण्डितैः। तथा च प्रत्यक्षत एव वादिप्रतिवादिनोः सारेतरविभागं विज्ञायोपन्यासमन्तरेणैव जयेतरव्यवस्थां२५ रचयेयुः । नो चेत्कथं तत्र कस्यचित्स्फुरणमस्फुरणं वा ते प्रतियन्तु ? न ह्यप्रतिपन्नभूतलस्य 'अत्र भूतले घटोस्ति नास्ति' इति वा प्रतीतिरस्ति । अथ स्वयमेव यदासौ वदति-'ममायमों मनसि वर्तते नायम्' इति तदा ते तथा प्रतिपद्यन्त; न; तदापि संदेहात्-"किं प्रतिवादिना योर्चा निश्चितः स एवास्य मनसि ३० वर्तते शब्देन तु वदति नायमर्थो मम मनसीति किन्त्वन्य एव-यो मया प्रतिपाद्यते, उतायमेव, इति न निश्चयहेतुः। दृश्यन्ते ह्यने
१ वादिना । . २ पत्रं गृहीत्वा। ३ पत्रात् । ४ धार्थ्यात् । ५ पत्रस्य । ६ स्वीकर्तव्यः । . ७ वादी। ८ प्रतिवादिनिगद्यमानार्थस्य वादिचेतसि स्फुरणास्फुरणप्रकारेण। ९ इति चेदिति शेषः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org