Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 854
________________ ६९० प्रमेयकमलमार्तण्डे [६. नयपरि० स्यर्थो वर्त्ततेऽस्येदं पत्रं वाचकमस्मात्त्वयायमों वादकाले प्रतिपत्तव्यः' इति सङ्केतं विदधाति । तथा तद्विधाने वा किं पत्रदानेन ? केवलमेवं वक्तव्यम्-'अर्थो मम चेतसि वर्तते, अत्र त्वया साधनं दूषणं वा वक्तव्यम्' इति । दृश्यन्ते साम्प्रतमप्यऽमत्सराः ५सन्त एवं वदन्तः-'शब्दो नित्योऽनित्य इति वाऽस्माकं मनसि प्रतिभाति, तत्र यदि भवतां दूषणाद्यभिधाने सामर्थ्यमस्तैि यामः सभ्यान्तिकम्' इति । कालान्तरेऽविस्मरणार्थ तद्दानं चेत्, तहगूढं पत्रं दातव्यम् , इतरथा तदानेपि विस्मरणसम्भवे किं कर्त्तव्यम् ? विस्मर्तुर्निग्रहश्चेत् ; न; पूर्वसङ्केतविधानवैयर्थ्यप्रसङ्गात्। न १० तत्प्रसङ्गः प्रतिवादिनः पत्रार्थपरिज्ञानार्थत्वात्तस्येति चेत्, तर्हि तत्परिज्ञानार्थ विस्मृतसङ्केतस्य पुनस्तद्विधानमेवास्तु, न तु निग्रहः । यदि च भवच्चित्ते वर्तमानोप्यर्थः सङ्केतबलेन पत्रादेव प्रतीयते; तर्हि ततो यः प्रतीयते स तदर्थो न मनस्येव वर्तमानः । यदि पुनः सङ्केतसहायात्पत्रात्तस्य प्रतीतेन तदर्थत्वम् । १५ तर्हि न कश्चित्कस्यचिदर्थः स्यात् सङ्केतमन्तरेण कुतश्चिच्छब्दा दर्थाऽप्रतीतेः। तन्न तहानकाले प्रतिवादिनि सङ्केतः । नापि वादकाले; तथाव्यवहारविरहादेव । किं च वादकालेपि चेद्वादी प्रतिवादिने स्वयं पत्रार्थ निवेदयति; तर्हि प्रथमं पत्रग्रहीतुरुपन्या सोऽनवसरः स्यात् । तन्नायमपि पक्षः श्रेयान् । २० अथान्यत्र; तर्हि सँ एव तदर्थशः, इति कथं प्रतिवादी साधनादिकं वदेत् तस्य तदर्थाऽपरिज्ञानात् ? प्रतिवादिनस्तदर्थापरिज्ञानं वादिनोभीष्टमेव तदर्थत्वात्पत्रदानस्येति चेत्, तर्हि पत्रमनक्षरं दातव्यमतः सुतरां तदपरिज्ञानसम्भवात् । अशिष्टचेष्टाप्रसङ्गोन्य त्रापि समानः। इति न किञ्चित्प्रागुक्तलक्षणपत्रदानेन प्रयोजनम् । २५ ननु वादप्रवृत्तिः प्रयोजनमस्त्येव-तहाने हि वादः प्रवर्तते, साधनाद्यभिधानं तु मानसार्थे वचनान्तरात्प्रतीयमान इत्यभिधाने तु पराक्रोशमात्रं लिखित्वा दातव्यं ततोपि वादप्रवृत्तेः सम्भवात् किमतिगूढपत्रविरचनप्रयासेन ? तन्नाद्यपक्षे पत्रावलम्बनं फलवत्। __ अथ तच्छब्दाद्यः प्रतीयते स तदर्थः, तर्हि खात्पतिता नो ३० रत्नवृष्टिः प्रकृतिप्रत्ययादिप्रपश्चार्थप्रविभागेन प्रतीयमानस्य पत्रा र्थत्वव्यवस्थितेः । अथ नायं तदर्थः, कथमन्यस्तदर्थः स्यात् ? - १ प्रतिवादिना । २ तहीति शेषः । ३ सङ्केतितार्थस्य । ४ कर्त्तव्य इति शेषः । ५ पुरुषान्तरे । ६ अन्यः । ७ स्वमनसि व्यवस्थितार्थे । ८ अस्माकम् । ९ सिद्धोऽसदीयः पक्ष इत्यर्थः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920