Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
६९२
प्रमेयकमलमार्तण्डे [६. नयपरिक कार्थ पत्रं विरचय्य, 'यदीदमस्यार्थतत्त्वं प्रतिवादी ज्ञास्यति तविं वदिष्यामः, नेदमर्थतत्त्वमस्य किन्त्विदमिति, अथेदं ज्ञास्यति तत्राप्यन्यथा गदिष्यामः' इति सम्प्रधारयन्तो वादिनः । अथ गुर्वादिभ्यः पूर्वमसौ तनिवेदयति, ततस्तेभ्यः प्राश्निकानां तेन्नि५श्चयः, न; अत्राप्यारेकाऽनिवृत्तेः, खशिष्यपक्षपातेनान्यथापि तेषां वचनसम्भवात् । यदि पुनर्वादी वादप्रवृत्तेः प्राक् प्रानिकेभ्यः प्रतिपादयति-'मदीयपत्रस्यायमर्थः, अत्रार्थान्तरं ब्रुवन् प्रतिबादी भवद्भिर्निवारणीयः' इति । अत्रापि प्रागप्रतिपनपत्रा
र्थानां महामध्यस्थानामुभयाभिमतानामकस्मादाहूतानां सभ्यानां १० मध्ये विवादकरणे का वार्ता ? 'पत्राद्यः प्रतीयते स एव तंत्र
तदर्थः' इति चेत्, अन्यत्रापि स एवास्त्वविशेषात् । तन्नाद्यः पक्षो युक्तः।
नापि द्वितीयः। न खलु प्रतिवादी वादिमनो जानाति येन 'योस्य मनसि वर्तते स एव मयार्थो निश्चितः, इति जानीयात् । १५एतेने तृतीयोपि पक्षश्चिन्तितः; सभ्यानामपि तन्निश्चयोपायाभावात् । किञ्चेदं पत्रं तदातुः स्वपक्षसाधनवचनम् परपक्षदूषणवचनम्, उभयवचनम्, अनुभयवचनं वा? तत्राद्यविकल्पत्रये सभ्यानामग्रे त्रिरुच्चारणीयमेव तत्तत्रापि वैषम्यात् । तथोच्चारितमपि यदा प्राश्निकैः प्रतिवादिना च न ज्ञायते वाद्यऽभिप्रेतार्था२० नुकूल्येन तदा तद्दातुः किं भविष्यति ? निग्रहः, "त्रिरभिहितस्यापि
कष्टप्रयोगद्रुतोच्चारादिभिः परिषदा प्रतिवादिना चाज्ञातमज्ञातं नाम निग्रहस्थानम्" [ न्यायसू० ५।२।९] इत्यभिधानात्, इति चेत् तस्य तर्हि खवधाय कृत्योत्थापनम् उक्तविधिना सर्वत्र तंदज्ञानसम्भवात् । तावन्मात्रप्रयोगाच्च खपरपक्षसाधनदूषणभावे २५प्रतिवाद्युपन्यासमनपेक्ष्यैव सभ्याः वादिप्रतिवादिनोजयेतरव्य
वस्थां कुर्युः । चतुर्थपक्षे तु तन्निग्रहः सुप्रसिद्ध एव खपरपक्षयोः साधनदूषणाऽप्रतिपादनात् । इत्यलमतिप्रसङ्गेन । । अथेदानीमात्मनः प्रारब्धनिर्वहणमौद्धत्यपरिहारं च सूचयन् परीक्षामुखेत्याधाह
१ निवेदनयोगे चतुर्थी । २ वादी । ३ पत्रार्धम् । ४ निवेदनात् । ५ पत्रार्थ । ६ इति चेदिति शेषः । ७ पक्षे। ८ न कापि । ९ अकस्मादाहूतेषु। १० पूर्वपाश्चिकेष्वपि । ११ उभयपक्षनिराकरणेन। १२ स्वपरपक्षसाधनदूषणकारकपत्रम् । १३ राक्षसी। १४ परिषदि । १५ वस्य पत्रार्थस्य । १६ स्वपरपक्षसाधनदूषणकारकपत्र । १७ पत्रपरीक्षायाः। ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/aedc2e2d7d482f4df6edc089fedb7541aac45e1d1009c7dd4ee83c6482e066b6.jpg)
Page Navigation
1 ... 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920