Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 862
________________ ६९८ प्रमेयकमलमार्तण्डे ३३८ " २५४ ३ ॥ तृतीयः परिच्छेदः॥ १ परोक्षमितरत् । २ प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् । ३ संस्कारोबोधनिबन्धनान्तदित्याकारा स्मृतिः। ४ स देवदत्तो यथा। ५ दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि । ६ यथा स एवायं देवदत्तः। ७ गोसदृशो गवयः । ८ गोविलक्षणो महिषः। ९ इदमस्माद् दूरम् । १० वृक्षोऽयमित्यादि। ११ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । १२ इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च । १३ यथाऽनावेव धूमस्तदभावे न भवत्येवेति च । १४ साधनात्साध्यविज्ञानमनुमानम् । १५ साध्याविनाभावित्वेन निश्चितो हेतुः। १६ सहक्रमभावनियमोऽविनाभावः । १७ सहचारिणोळप्यव्यापकयोश्च सहभावः । १८ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः । १९ तर्कात्तन्निर्णयः। २० इष्टमबाधितमसिद्धं साध्यम् । २१ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्य सिद्धपदम् । २२ अनिष्टाध्यक्षादिबाधितयोः साध्यवं माभूदितीष्टाबाधितवचनम् । २३ न चासिद्धवदिष्टं प्रतिवादिनः। २४ प्रत्यायनाय हीच्छा वक्तुरेव । २५ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी । २६ पक्ष इति यावत् । २७ प्रसिद्धो धर्मी। २८ विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये । २९ अस्ति सर्वज्ञो नास्ति खरविषाणम् । ३० प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता । ३१ अग्निमानयं देशः परिणामी शब्द इति यथा । ३२ व्याप्तौ तु साध्यं धर्म एव । ३३ अन्यथा तदघटनात् । ३४ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् । ३५ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । ३६ को वा त्रिधा हेतुमुक्खा समर्थयमानो न पक्षयति । ३७१ ३७३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920