________________
६९८
प्रमेयकमलमार्तण्डे
३३८
"
२५४
३
॥ तृतीयः परिच्छेदः॥ १ परोक्षमितरत् । २ प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् । ३ संस्कारोबोधनिबन्धनान्तदित्याकारा स्मृतिः। ४ स देवदत्तो यथा। ५ दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं
तद्विलक्षणं तत्प्रतियोगीत्यादि । ६ यथा स एवायं देवदत्तः। ७ गोसदृशो गवयः । ८ गोविलक्षणो महिषः। ९ इदमस्माद् दूरम् । १० वृक्षोऽयमित्यादि। ११ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । १२ इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च । १३ यथाऽनावेव धूमस्तदभावे न भवत्येवेति च । १४ साधनात्साध्यविज्ञानमनुमानम् । १५ साध्याविनाभावित्वेन निश्चितो हेतुः। १६ सहक्रमभावनियमोऽविनाभावः । १७ सहचारिणोळप्यव्यापकयोश्च सहभावः । १८ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः । १९ तर्कात्तन्निर्णयः। २० इष्टमबाधितमसिद्धं साध्यम् । २१ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्य सिद्धपदम् । २२ अनिष्टाध्यक्षादिबाधितयोः साध्यवं माभूदितीष्टाबाधितवचनम् । २३ न चासिद्धवदिष्टं प्रतिवादिनः। २४ प्रत्यायनाय हीच्छा वक्तुरेव । २५ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी । २६ पक्ष इति यावत् । २७ प्रसिद्धो धर्मी। २८ विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये । २९ अस्ति सर्वज्ञो नास्ति खरविषाणम् । ३० प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता । ३१ अग्निमानयं देशः परिणामी शब्द इति यथा । ३२ व्याप्तौ तु साध्यं धर्म एव । ३३ अन्यथा तदघटनात् । ३४ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् । ३५ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । ३६ को वा त्रिधा हेतुमुक्खा समर्थयमानो न पक्षयति ।
३७१
३७३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org