Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 853
________________ सू० ६७४] पत्रविचारः ६८९ लामो-"विदु लाभे" [ ] इति वचनात् । यस्य सकला वित् वृणोति प्रच्छादयतीत्यौणादिके गे वर्ग इति भवति । सकलविच्चासौ वर्गश्चेति सकलविद्वर्गः-पट इत्यर्थः। तेन तुल्यं वर्त्तते इति सकलविद्वर्गवत् । एतच्च तन्वादि एवमनादिरवायनीयप्रकारं तत्तस्माद्बुद्धिमत्कारणमिति । तदेतदसमीचीनम् ५ अनुमानाभासत्वादस्य । तदाभासत्वं च तद्वयवानां प्रतिज्ञाहेतू. दाहरणानां कालात्ययापदिष्टत्वाद्यनेकदोषदुष्टत्वेन तदाभासत्वात्सिद्धम् । एतच्चेश्वरनिराकरणप्रकरणाद्विशेषतोवगन्तव्यम् ।। ननु चोक्तलक्षणे पत्रे केनचित्कर्मप्युद्दिश्यावलम्बिते तेनं च गृहीते भिंने च यदा पत्रस्य दातैवं ब्रूयात् 'नायं मदीयपत्रस्यार्थः' १० इति, तदा किं कर्तव्यमिति चेत् । तदासौ विकल्प्य प्रष्टव्यः-कोयं भवत्पत्रस्यार्थो नाम-किं यो भवन्मनसि वर्तते सोस्यार्थः, वाक्यरूपात्पत्रात्प्रतीयमानो वा स्यात्, भवन्मनसि वर्तमानः ततोपि च प्रतीयमानो वा प्रकारान्तरासम्भवात् ? तत्र प्रथमपक्षे पत्रावलम्बनमनर्थकम् । तेंद्वि(द्धि)प्रतिवादी समादाय विज्ञा-१५ तार्थस्वरूपस्तत्र दूषणं वदतु विपरीतस्तु निर्जितो भवत्वित्यवलं. म्ब्यते । यश्च तस्मादर्थः प्रतीयते नासौ तदर्थ इति न तत्र केनचित्साधनं दूषणं वा वक्तव्यमनुपयोगात् । यस्तु तदर्थों भवञ्चेतसि वर्तमानो नासौ कुंतश्चित्प्रतीयते परचेतोवृत्तीनां दुरन्वयत्वोदिति ? तत्रापि न साधनं दूषणं वा सम्भवति । न २० ह्यप्रतीयमानं वस्तु साधनं दूषणं वाहत्यऽतिप्रसङ्गात् । यदि पुनरन्यतः कुतश्चित्तं प्रतिपद्य प्रतिवादी तंत्र साधनादिकं ब्रूयात्; तर्हि पत्रावलम्बनानर्थक्यम् । तत एव तत्प्रतिपत्तिश्चेच्चित्रमेतत्-तस्यासावों न भवति ततश्च प्रतीयते' इति, गोशब्दादप्यश्वादिप्रतीतिप्रसङ्गात् । सङ्केते सति भवतीति चेत्कः२५ सङ्केतं कुर्यात् ? पत्रदातेति चेत्, किं पत्रदानकाले, वादकाले वा, तथा प्रतिवादिनि, अन्यत्र वा? तदानकाले प्रतिवादिनीति चेत्, न तथा व्यवहाराभावात् । न खलु कश्चिद् 'अयं मम चेत १ अनुमानस्य । २ वादिना । ३ प्रतिवादिनम् । ४ प्रतिवादिना । ५ शातार्थे । ६ अर्थ विचार्य पत्रे खण्डीकृते । ७ प्रतिवादिना। ८ कथम् ।। ९ तत् पत्रम् । १० व्यवहर्तृभिः । ११ प्रमाणात् । १२ अन्वयो=निश्चयः। १२ चेतसि वर्तमानेथैपि । १४ चेतोवर्तमानपत्रार्थम् । १५ चेतोवर्तमानपत्रार्थे । १६ तस्य चेतसि वर्तमानपत्रार्थस्य । १७ चेतसि वर्तमानः । १८ पत्रादप्रतीयमानोऽपि चेतसि वर्तमानपत्रार्थः सङ्केतकाले तदों भविष्यतीत्याशङ्कयाह । १९ पुरुषान्तरे। २० पत्रदानकाले प्रतिवादिनि सङ्केतप्रकारेण। २१ वादी। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920