Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 849
________________ सू० ६७४] पत्रविचारः कथं प्रागुक्तविशेषणविशिष्टं वाक्यं पत्रं नाम, तस्य श्रोत्रसमधिगम्यपदसमुदयविशेषरूपत्वात् , पत्रस्य च तद्विपरीताकारत्वात् ? न च यद्यतोऽन्यत्तत्तेन व्यपदेष्टुं शक्यमतिप्रंसङ्गादिति चेत्, 'उपचरितोपचारात्' इति ब्रूमः। 'श्रोत्रपथप्रस्थायिनो हि वर्णात्मकपदसमूहविशेषस्वभाववाक्यस्य लिप्यामुपचारस्तत्रास्य जनै-५ रारोप्यमाणत्वात् , लिप्युपचरितवाक्यस्यापि पत्रे, तत्र लिखितस्य तत्रस्थत्वात्' इत्युपचरितोपचारात्पत्रव्यपदेशः सिद्धः । न च यद्यतोन्यत्तत्तेनोपचारादुपचरितोपचाराद्वा व्यपदेष्टुमशक्यम्, शक्रादन्यत्र व्यवहर्तृजनाभिप्राये शक्रोपचारोपलम्भात्, तस्माच्चान्यत्र काष्ठादावुपचरितोपचाराच्छकव्यपदेशसिद्धेः । अथवा १० प्रकृतस्य वाक्यस्य मुख्य एव पत्रव्यपदेश:-'पदानि प्रायन्ते गोप्यन्ते रक्ष्यन्ते परेभ्यः खयं विजिगीषुणा यस्मिन्वाक्ये तत्पत्रम्' इति व्युत्पत्तेः । प्रकृतिप्रत्ययादिगोपनाद्धि पदानां गोपनं विनिश्चितपदखरूपतदभिधेयतत्त्वेभ्योपि परेभ्यः सम्भवत्येव । तस्योक्तप्रकारस्य पत्रस्यावयवौ केचिद्धावेव प्रयुज्यते १५ तावतैव साध्यसिद्धेः। तद्यथा "स्वान्तभासितभूत्याद्ययन्तात्मतदुभान्तवाक् । - परान्तद्योतितोहीप्तमितीतखात्मकत्वतः॥" [ इति । अन्त एव ह्यान्तः, स्वार्थिकोऽण् वानप्रस्थादिवत् । प्रादिपाठापेक्षया सोरान्तः स्वान्तः उत्, तेन भासिता द्योतिता भूति-२० रुद्भूतिरित्यर्थः । सा आद्या येषां ते खान्तभासितभूत्याद्याः ते च ते व्यन्ताश्च उद्भूतिव्ययध्रौव्यधर्मा इत्यर्थः । ते एवात्मानः तांस्तनोतीति वान्तभासितभूत्याद्ययन्तात्मतत् इति साध्यधर्मः। उभान्ता वाग्यस्य तदुभान्तवाक्-विश्वम्, इति धर्मि । तस्य साध्यधर्मविशिष्टस्य निर्देशः । उत्पादादित्रिखभावव्यापि सर्व-२५ मित्यर्थः। परान्तो यस्यासौ परान्तःप्रः, स एव द्योतितं द्योतनमुपसर्ग इत्यर्थः । तेनोद्दीप्ता चासौ मितिश्च तया इतः खात्मा यस्य तत्परान्तद्योतितोहीप्तमितीतखात्मकं 'प्रमितिप्राप्तखरूपम्' इत्यर्थः । तस्य भावस्तत्त्वं 'प्रमेयत्वम्' इत्यर्थः, प्रमाणविषयस्य प्रमेयत्वव्यवस्थितेः इति साधनधर्मनिर्देशः। दृष्टान्ताद्यभावेऽपि ३० च हेतोर्गमकत्वम् "एतद्वयमेवानुमानाङ्गम्" [परीक्षामु० ३।३७] १ घटस्य पटव्यपदेशप्रसङ्गात् । २ पुंसि । ३ प्रतिवादिभ्यः। ४ अनुमानवाक्ये । ५ विश्वम् । ६ प्रमेयत्वात् । ७ प्रपराऽपसमन्वादिः प्रादिः। ८ व्याप्नोति । .९ परान्तधोतितेन । १० प्राप्तः। ११ वसाध्यप्रतिपादकत्वम् । प्र० क०मा० ५८ For Personal and Private Use Jain Educationa International www.jainelibrary.org

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920