________________
सू० ६७४] पत्रविचारः कथं प्रागुक्तविशेषणविशिष्टं वाक्यं पत्रं नाम, तस्य श्रोत्रसमधिगम्यपदसमुदयविशेषरूपत्वात् , पत्रस्य च तद्विपरीताकारत्वात् ? न च यद्यतोऽन्यत्तत्तेन व्यपदेष्टुं शक्यमतिप्रंसङ्गादिति चेत्, 'उपचरितोपचारात्' इति ब्रूमः। 'श्रोत्रपथप्रस्थायिनो हि वर्णात्मकपदसमूहविशेषस्वभाववाक्यस्य लिप्यामुपचारस्तत्रास्य जनै-५ रारोप्यमाणत्वात् , लिप्युपचरितवाक्यस्यापि पत्रे, तत्र लिखितस्य तत्रस्थत्वात्' इत्युपचरितोपचारात्पत्रव्यपदेशः सिद्धः । न च यद्यतोन्यत्तत्तेनोपचारादुपचरितोपचाराद्वा व्यपदेष्टुमशक्यम्, शक्रादन्यत्र व्यवहर्तृजनाभिप्राये शक्रोपचारोपलम्भात्, तस्माच्चान्यत्र काष्ठादावुपचरितोपचाराच्छकव्यपदेशसिद्धेः । अथवा १० प्रकृतस्य वाक्यस्य मुख्य एव पत्रव्यपदेश:-'पदानि प्रायन्ते गोप्यन्ते रक्ष्यन्ते परेभ्यः खयं विजिगीषुणा यस्मिन्वाक्ये तत्पत्रम्' इति व्युत्पत्तेः । प्रकृतिप्रत्ययादिगोपनाद्धि पदानां गोपनं विनिश्चितपदखरूपतदभिधेयतत्त्वेभ्योपि परेभ्यः सम्भवत्येव । तस्योक्तप्रकारस्य पत्रस्यावयवौ केचिद्धावेव प्रयुज्यते १५ तावतैव साध्यसिद्धेः। तद्यथा
"स्वान्तभासितभूत्याद्ययन्तात्मतदुभान्तवाक् । - परान्तद्योतितोहीप्तमितीतखात्मकत्वतः॥" [ इति । अन्त एव ह्यान्तः, स्वार्थिकोऽण् वानप्रस्थादिवत् । प्रादिपाठापेक्षया सोरान्तः स्वान्तः उत्, तेन भासिता द्योतिता भूति-२० रुद्भूतिरित्यर्थः । सा आद्या येषां ते खान्तभासितभूत्याद्याः ते च ते व्यन्ताश्च उद्भूतिव्ययध्रौव्यधर्मा इत्यर्थः । ते एवात्मानः तांस्तनोतीति वान्तभासितभूत्याद्ययन्तात्मतत् इति साध्यधर्मः। उभान्ता वाग्यस्य तदुभान्तवाक्-विश्वम्, इति धर्मि । तस्य साध्यधर्मविशिष्टस्य निर्देशः । उत्पादादित्रिखभावव्यापि सर्व-२५ मित्यर्थः। परान्तो यस्यासौ परान्तःप्रः, स एव द्योतितं द्योतनमुपसर्ग इत्यर्थः । तेनोद्दीप्ता चासौ मितिश्च तया इतः खात्मा यस्य तत्परान्तद्योतितोहीप्तमितीतखात्मकं 'प्रमितिप्राप्तखरूपम्' इत्यर्थः । तस्य भावस्तत्त्वं 'प्रमेयत्वम्' इत्यर्थः, प्रमाणविषयस्य प्रमेयत्वव्यवस्थितेः इति साधनधर्मनिर्देशः। दृष्टान्ताद्यभावेऽपि ३० च हेतोर्गमकत्वम् "एतद्वयमेवानुमानाङ्गम्" [परीक्षामु० ३।३७]
१ घटस्य पटव्यपदेशप्रसङ्गात् । २ पुंसि । ३ प्रतिवादिभ्यः। ४ अनुमानवाक्ये । ५ विश्वम् । ६ प्रमेयत्वात् । ७ प्रपराऽपसमन्वादिः प्रादिः। ८ व्याप्नोति । .९ परान्तधोतितेन । १० प्राप्तः। ११ वसाध्यप्रतिपादकत्वम् ।
प्र० क०मा० ५८ For Personal and Private Use
Jain Educationa International
www.jainelibrary.org