________________
६८६
प्रमेयकमलमार्त्तण्डे
[ ६. नयपरि
इत्यत्र समर्थितम् । अन्यथानुपपत्ति बलेनैव हि हेतोर्गमकत्वम्, सा चात्रास्त्येव एकान्तंस्य प्रमाणागोचरतया विषयपरिच्छेदे समर्थनात् । एवं प्रतिपाद्याशयवशात्रिप्रभृतयोप्यवयवाः पत्रवाक्ये द्रष्टव्याः । तथाहि
५ " चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः । यदित्थं न तदित्थं न यथाऽकिञ्चिदिति त्रयः ॥ १ ॥ तथा चेदमिति प्रोक्तौ चत्वारोऽवयवा मताः । तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥ २ ॥” [ पत्रप० पृ० १०] १० चित्रमेकानेकरूपम्, तदैततीति चित्रात् - एकानेकरूपव्यापि अनेकान्तात्मकमित्यर्थः । सर्वविश्वयदित्यादिसर्वनामपाठापेक्षया यदन्तो विश्वशब्दो 'यत् अन्ते यस्य' इति व्युत्पत्तेः । तेन राणीयं शब्दनीयं विश्वमित्यर्थः । तदनेकान्तात्मकं विश्वमिति पक्षनिर्देशः । आरेका संशयः, सा अन्ते यस्येत्यारेकान्तः प्रमेयः १५ " प्रमाणप्रमेयसंशय " [ न्यायसू० १११११] इत्यादिपाठापेक्षया, स आत्मा यस्य तदारेकान्तात्मकम्, तस्य भावस्तत्त्वं तस्मात् इति साधनधर्म निर्देशः । यदित्थं न भवति यच्चित्रान्न भवति तदित्थं न भवति आरेकान्तात्मकं न भवति यथाऽकिञ्चित् न किञ्चित् अथवा अकिञ्चित् सर्वथैकान्तवाद्यभ्युपगतं तस्वम् । इति त्रयो ऽ२० वयवाः पत्रे क्वचित्प्रयुज्यन्ते । तथा चेदमिति पक्षधर्मोपसंहारवचने चत्वारः । तस्मात्तथाऽनेकान्त व्यापीति निर्देशे पश्चेति ।
,
3
यच्चेदं योगैः स्वपक्षसिद्ध्यर्थं पत्रवाक्यमुपन्यस्तम्- सैन्यलड्भीग नाऽनन्तरानर्थार्थ प्रस्वापकँदाऽऽशैद्स्यतोऽनीकोनेनल ड्युक - कुलोद्भवो वैषोप्यनैश्यतापैस्तन्नऽनुरड्लड्जुट् परापरतत्त्ववित्त२५ दन्योऽनादिश्वायनीयत्वत एवं यदीदृक्तत्सकल विद्वर्गव देतश्चैव'मेवं तदिति पत्रम् । अस्यायमर्थः - इन आत्मा सकलस्यैहिकपार'लौकिक व्यवहारस्य प्रभुत्वात्, सह तेन वर्तते इति सेनः । स एव चातुर्वर्ण्यादिवत्स्वार्थिके ध्यणि कृते 'सैन्यम्' इति भवति । तस्य लड्-विलसः तं भजते सेवते इति सैन्यलङ्काक्- 'देहः '
"
१ जैनैः । २ सर्वथा नित्यस्य क्षणिकस्य वा वस्तुनः । ३ अत सातत्यगमने । -४ खरविषाणवत् । ५ आरेकान्तात्मकम् । ६ देहः । ७ प्रबोधकारीन्द्रियादिकारणकलापः । ८ आसमुद्रात् । ९ गिरिनिकरो भुवनसन्निवेशश्च । १० इनलड्युक्= सूर्याचन्द्रमसौ । ११ पृथिव्यादिकार्यद्रव्यसमूहः । १२ वक्ष्यते स्वयमेवाग्रे स्यार्थः । १३ ज्ञानभोगादिपदार्थ: । १४ लड विलासे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org