________________
सू० ६।७४] 'पत्रविचारः
६८७ इति यावत् । अर्थः प्रयोजनं तस्मै अर्थार्थः, न अर्थार्थोऽनर्थार्थः । प्रकृष्टो लौकिकस्खापाद्विलक्षणः स्वापः प्रवाप-बुद्ध्यादिगुणवियुक्तस्यात्मनोऽवस्थाविशेषः मोक्ष इति यावत् । न हि तत्साध्य किञ्चित्प्रयोजनमस्ति; तस्य सकलपुरुषप्रयोजनानामन्ते व्यवस्थानात् । अनर्थार्थश्चासौ प्रस्वापश्च । नन्वेवं सौगतस्वापस्यापि ग्रहणं५ . स्यात् , सोपि ह्यनर्थार्थप्रस्वापो भवति सकलसन्ताननिवृत्तिलक्षणस्य मोक्षस्य सौगतैरभ्युपगमात् । तदुक्तम्"दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काश्चित्स्नेहक्षयात्केवलमेति शान्तिम् ॥ जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्। १० दिशं न काश्चिद्विदिशं न काश्चिक्लेशक्षयात्केवलमेति शान्तिम्॥"
[सौन्दरनन्द १६।२८,२९] . अत्राह-नानन्तरेति । अन्तो विनाशस्तं रौति पुरुषाय ददातीत्यन्तरः। नान्तरोऽनन्तरः पुरुषस्य विनाशदायको नेत्यर्थः । अनन्तरश्चासावनार्थप्रस्वापश्चानन्तराऽनर्थार्थप्रस्खापः।नेति निपातः१५ प्रतिषेधवाची । नानन्तरानार्थप्रस्वापो लौकिको निद्राकृतः वाप इत्यर्थः।तं कृन्तति छिनत्तीति नानन्तरानार्थप्रस्वापकृत्-'प्रबोध. कारीन्द्रियादिकारणकलापः' इति यावत्। शिषु इत्ययं धातुभवादिकः सेचनार्थः, "जिषु डिषु शिषु विषु उक्ष पृषु वृषु सेचने"
] इत्यभिधानात् । तस्माच्छेषणं भावे घनि कृते २० 'शेषः' इति भवति । तस्मात्स्वार्थिकेऽणि कृते 'शैर्षेः' इति जायते । शैषं करोति "तत्करोति तदाचष्टे, तेनातिकामति धुरूपं च" [ ] इति णिचि कृते टेः खे च कृते शैषीति भवति । "तदन्ता धवः" [जैनेन्द्रव्या० २॥१॥३९] इति (संज्ञायां सत्यां "प्राग्धोस्ते" [ जैनेन्द्रव्या० १॥२॥१४८] इत्याङा योगः। आशेष-२५ यति समन्ताद्भुवः सेकं करोतीति क्विपि तस्य च सर्वापहारेण लोपे डत्वे च कृते आशैडिति भवति । आशैट् चासौ स्यच्चाशैट्स्यत् लोकप्रसिद्धः समुद्रः । तस्मादाशैट्स्यतः-आ समुद्रादिति यावत् । निपूर्व इष् इत्ययं धातुर्गत्यर्थः परिगृह्यते-"इष् गतिहिंसनयोंश्च" [
] इति वचनात् । नीषते ३० गच्छतीति नीद, न नीडऽनीद । तस्मात्स्वार्थिके के प्रत्ययेऽनीक इति भवति । अचलो गिरिनिकर इत्यर्थः । यदि वा अं विष्णु नीषति गच्छति समाश्रयतीत्यनीड्-भुवनसन्निवेशः। तदुक्तम्
१ अनर्थार्थप्रस्वापः। २ परममोक्षस्य न तु जीवन्मोक्षस्य । ३ रा दाने । ४ शेष एव शेषः । ५ लोपे। ६ 'धु' इति धातुसंशा। ७ (माघे)।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org