SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ ६८८ प्रमेयकमलमार्तण्डे [६. नयपरि० "युगान्तकालप्रतिसंहृतात्मनोजगन्ति यस्यां सविकासमासते। तनौ ममुस्तत्र न कैटभद्विषैस्तपोधनाभ्यागमसम्भवा मुर्दैः॥" [शिशुपालव० ०२३] न विद्यते ना समवायिकारणभूतो यस्यासावऽना, "ऋण्मोः" ५(न्मोः) [जैनेन्द्रव्या० ४।२।१५३] इति कप सान्तो न भवति "सान्तो विधिरनित्यः" [ ] इति परिभाषाश्रयणात् । इनो भानुः । लषणं लट् कान्ति:-"लए कान्तौ” [ ] इति वचनात् । लषा युक् योगो यस्यासौ लड्युक्-चन्द्रः। इनश्च लड्युक् चेनलड्युक् सूर्याचन्द्रमसौ । कुलमिव कुलं सजातीयार१०म्भकावयवसमूहः । तस्मादुद्भव आत्मलाभो यस्यासौ कुलोद्भवः पृथिव्यादिकार्यद्रव्यसमूहः । 'वा' इत्यनुक्तसमुच्चये, तेनानित्यस्य गुणस्य कर्मणश्च ग्रहणम् । एषःप्रतीयमानः। अतो नाश्रयासिद्धिः। अझ्यो हितोऽप्यः-समुद्रादिः । निशायाः कर्म नैश्यमन्धकारादि। ताप औष्ण्यम् । स्तनतीति स्तन् मेघः । एतेषां द्वन्द्वैकवद्भावः । १५किम्भूतः स तच्च । न विद्यते ना पुरुषो निमित्तकारणमस्येति । रटनं परिभाषणं तस्य लड् विलासः, तं जुषते सेवते इति-"जुषी - प्रीतिसेवनयोः"[ ] इत्यभिधानात् । अनुरड्लड्जु । अत्रापि कबऽभावे निमित्तमुक्तम् । अंत्र साध्यधर्ममाह । परापरतत्त्ववित्तदन्य इति । परं पार्थिवा२०दिपरमाण्वादिकारणभूतं वस्तु, अपरं पृथिव्यादिकार्यद्रव्यम् , तयोस्तत्त्वं स्वरूपम्, तस्मिन्विद् बुद्धिर्यस्यासौ परापरतत्त्ववित्कार्यकारणविषयबुद्धिमान् पुरुष इत्यर्थः । तस्मात्परोक्तादन्यः परापरतत्त्ववित्तदन्यो बुद्धिमत्कारण इत्यर्थः । यदा नपुंसकेन सम्बन्धस्तदा परापरतत्त्ववित्तदन्यदिति व्याख्येयम् । कुत एत२५दित्याह-अनादिरवायनीयत्वत इति । कार्यस्य हेतुरादिस्ततः प्रागेव तस्य भावात् । तस्मादन्योऽनादिः कार्यसन्दोहः। तस्य रवस्तत्प्रतिपादकं कार्यमिति वचनम् । तेनायनीयं प्रतिपाद्यं तस्य भावस्तत्त्वम्, तस्मादनादिरवायनीयत्वतः-कार्यत्वात्' इत्यर्थः। एवं यदनादिरवायनीयं तदीडर बुद्धिमत्कारणम् । तत्कला अव. ३० यवा भागा इत्यर्थः, सह कलाभिर्वर्तते इति सकला। वित् आत्म १ तिष्ठन्ति । २ नारायणस्य । ३ प्रकारणात्तपोधनोत्र नारदः। ४ सन्तोषाः। ५ समासान्त इत्यर्थः। ६ हेतोः। ७ अप्यादीनाम् । ८ पुल्लिङ्गनिर्दिष्टः सर्वः नपुंसकलिङ्गनिर्दिष्टं सर्वम् । ९ सामान्यनरः। १० धर्मिणि। ११ अबुद्धिमत्कारणाद। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy