________________
सू० ६१७३] जय-पराजयव्यवस्था
"विज्ञातस्य परिषदा त्रिरभिहितस्याऽप्रत्युच्चारणमननुभाषणम् ।” [न्यायसू०५।२।१६] अप्रत्युच्चारयन्किमाश्रयं परपक्षप्रतिषेधं ब्रूयात् ? इत्यत्रापि किं सर्वस्य वादिनोक्तस्याननुभाषणम् , किं वा यन्नान्तरीयिका साध्यसिद्धिस्तस्येति ? तत्राद्यः पक्षोऽयुक्तः, परोक्तमशेषमप्रत्युच्चारयतोपि दूषणवचनाऽव्याघातात् । यथा 'सर्वमनित्यं सत्त्वात्' इत्युक्ते 'सत्त्वात् इत्ययं हेतुर्विरुद्धः' इति हेतुमेवोच्चार्य विरुद्धतोद्भाव्यते-'क्षणक्षयायेकान्ते सर्वथार्थक्रियाविरोधात्सत्त्वानुपपत्तेः' इति, समर्थ्यते च, तावता च परोक्तहेतो. र्दूषणाकिमन्योच्चारणेन ? अंतो यन्नान्तरीयिका साध्यसिद्धिस्त. स्यैवाऽप्रत्युच्चारणमननुभाषणं प्रतिपत्तव्यम् । अथैवं दूषयितुम.१० समर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्वात्; तदाऽयमुत्तराऽप्रतिपत्तेरेव तिरस्क्रियते न पुनरननुभाषणादिति । __"अविज्ञातं चाज्ञानम् ।" [न्यायसू० ५।२।१७ ] विज्ञातार्थस्य परिषदा प्रतिवादिना यदविज्ञातं(न)तदज्ञानं नाम निग्रहस्थानम् । अजानन् कस्य प्रतिषेधं ब्रूयात् ? इत्यप्यसारम् प्रतिज्ञाहान्यादि-१५ निग्रहस्थानानां भेदाभावानुषङ्गात् तंत्राप्यज्ञानस्यैव सम्भवात् । तेषां तत्प्रभेदत्वे वा निग्रहस्थानप्रतिनियमासावप्रसङ्गः परोक्तस्या ज्ञानादिभेदेन निग्रहस्थानानेकत्वसम्भवात् ।
"उत्तरस्याप्रतिपत्तिरप्रतिभा।" [ न्यायसू० ५।२।१८] साप्यज्ञानान्न भिद्यत एव।
२० "निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ।" [ न्यायसू० ५।२।२१] पर्यनुयोज्यो हि निग्रहोपपत्त्या चोदनीयस्तस्योपेक्षणं 'निग्रहं प्राप्तोसि' इत्यननुयोग एव । एतच्च 'कस्य पराजयः इत्यनुयुक्तया परिषदा वचनीयम् । न खलु निग्रहप्राप्तः खं कौपीनं विवृणुयात् । इत्यप्यज्ञानान्न व्यतिरिच्यत एव ।
"अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः ।" [न्यायसू० ५।२।२२] तस्याप्यज्ञानात्पृथग्भावोनुपपन्न एव ।।
१ वादिना । २ प्रतिवादिना । ३ प्रतिवाधुक्तस्य । ४ प्रतिवादिना। ५ अन्यत् धर्मिसाध्यादि । ६ सर्वस्य वादिनोक्तस्याननुभाषणं न घटते यतः । ७ परेण । ८ हेतू. च्चारणं कृत्वा । ९ प्रतिवादी। १० प्रतिवादी। ११ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविशातं तदशानं नाम । १२ प्रतिवादी। १३ आदिना अर्धा दिप्रहः । १४ प्राप्तदोषानुद्भावनं पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानम् । १५ प्रतिवादिनः । १६ इदं ते निग्रहस्थानमायातमतो निग्रहीतोसीति वचनीयः। १७ पृष्टया। १८ गुह्यम् । १९ दोषरहिते दोषोद्भावनं निरनुयोज्यानुयोगो नाम निग्रहस्थानम् ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org