________________
६७०
प्रमेयकमलमार्तण्डे [५. तदाभासपरि०
"कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः।" [ न्यायसू० ५।२।१९] सिसाधयिषितस्यार्थस्याऽशक्यसाध्यतामवसीय कालयापनार्थ यत्कर्त्तव्यं व्यासज्य कथां विच्छिनत्ति-इदं मे करणीयं परिहीयते, तस्मिन्नवसिते पश्चात्कथयिष्यामि । इत्यप्यज्ञानतो नार्थान्तरमिति ५प्रतिपत्तव्यम्।
"खेपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ।" [न्यायसू० ५।२२०] यः परेण चोदितं दोषमनुद्धृत्य ब्रवीति-भवत्पक्षेप्ययं दोषः समानः' इति, स स्वपक्षे दोषाभ्युपगमात्परपक्षे
दोषं प्रसजन् परमतमनुजानातीति मतानुज्ञा नाम निग्रहस्थान१०मापद्यते । इत्यप्यज्ञानान्न भिद्यते एव । अनैकान्तिकता चात्र
हेतोः; तथाहि-तस्करोयं पुरुषत्वात्प्रसिद्धतस्करवत्' इत्युक्ते 'त्वमपि तस्करः स्यात्' इति हेतोरनैकान्तिकत्वमेवोक्तं स्यात् । स चात्मीयहेतोरामनैवानकान्तिकत्वं दृष्ट्वा प्राह-भवत्पक्षेप्ययं दोषः समान:-त्वमपि पुरुषोसि इत्यनैकान्तिकत्वमेवोद्भाव१५ यतीति।
"हीनमन्यतमेनाप्यवयवेन न्यूनम्।" [न्यायसू० ५।२।१२] यस्मिन्वाक्ये प्रतिज्ञादीनामन्यतमोऽवयवो न भवति तद्वाक्यं हीनं नाम निग्रहस्थानम् । साधनाभावे साध्यसिद्धेरभावात्, प्रतिज्ञादीनां च
पञ्चानामपि साधनत्वात् ; इत्यप्यसमीचीनम्। पञ्चावयवप्रयोग२० मन्तरेणापि साध्यसिद्धेः प्रतिपादितत्वात्, पक्षहेतुवचनमन्तरेणैव तत्सिद्धेरभावात् अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ।
"हेतूदाहरणाधिकमधिकम्।"न्यायसू०५।२।१३] यस्मिन्वाक्ये द्वौ हेतू द्वौ वा दृष्टान्तौ तदधिकं निग्रहस्थानम् ; इत्यपि वार्तम् । तथाविधाद्वाक्यात्पक्षप्रसिद्धौ पराजयायोगात् । कथं चैवं प्रमा२५णसंप्लवोभ्युपगम्यते ? अभ्युपगमे वाधिकत्वान्निग्रहाय जायेत । 'प्रतिपत्तिदाळ-संवादसिद्धिप्रयोजनसद्भावान्न निग्रहः' इत्यन्यत्रापि समानम् । हेतुना दृष्टान्तेन वैकेन प्रसाधितेप्यर्थे द्वितीयस्य हेतोदृष्टान्तस्य वा नानर्थक्यम्, तत्प्रयोजनसद्भावात् । न चैवैम
नवस्था; कस्यचिवचिनिराकांक्षतोपपत्तेः प्रमाणान्तरवत् । कथं ३० चाय कृतकत्वादौ स्वार्थिककप्रत्ययवचनम् , 'यत्कृतकं तदनि
१ शात्वा। २ स्वपक्षोक्तदोषमपरिहृत्य परपक्षेपि दूषणमुद्भावयतो मतानुज्ञा नाम निग्रहस्थानम् । ३ वादी। ४ प्रतिवादिना। ५ स्वपक्षे। ६ सम्बन्धयन् । ७ वादी । ८ स्वयम् । ९ अनुमानस्य । १० अधिकस्य निग्रहस्थानत्वप्रकारेण । ११ एकस्मिप्रमाणविषये प्रमाणान्तरवर्तनं प्रमाणसंप्लवः। १२ परेण । १३ हेतुदृष्टान्तान्तरान्वेषणप्रकारेण । १४ अनुमाने । १५ अधिकनिग्रहस्थानवादिनः। १६ साधने ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org