________________
सू० ६७३] जय-पराजयव्यवस्था
६७१ त्यम्' इति व्याप्तौ यत्तद्वचनम्, वृतिपदप्रयोगादेव चार्थप्रतिपत्तौ वाक्यप्रयोगः अधिकत्वान्निग्रहस्थानं न स्यात् ? तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तन्नेति चेत् कथमनेकस्य हेतोदृष्टान्तस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् ? निरर्थकस्य तु वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति। ५ __ “सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः।" [न्यायसू० ५।२।२३] प्रतिज्ञातार्थपरित्यागान्निग्रहस्थानम् । यथा नित्या नऽभ्युपेत्य शब्दादीन् पुनरनित्यान् ब्रूते । इत्यपि प्रतिवादिनः प्रतिपक्षसाधने सत्येव निग्रहस्थानं नान्यथा।
"हेत्वाभासाश्च यथोक्ताः।" [न्यायसू० ५।२२४] असिद्धवि-१० रुद्धानकान्तिककालात्ययापदिष्टप्रकरणसमा निग्रहस्थानम् । इत्यत्रापि विरुद्धहेतूद्भावने प्रतिपक्षसिद्धेर्निग्रहाधिकरणत्वं युक्तम् । असिद्धाधुद्भावने तु प्रतिवादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति।
एतेनासाधनाङ्गवचनादि निग्रहस्थानं प्रत्युक्तम् ; एकस्य स्वप-१५ क्षसियैवान्यस्य निग्रहप्रसिद्धः । ततः स्थितमेतत्
"वपक्षसिद्धेरेकस्य निग्रहोन्यस्य वादिनः। नासाधनाङ्गवचनमदोषोद्भावनं द्वयोः॥"[ ] इति। इदं चानवस्थितम्"असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। निग्रहस्थानमन्यत्तु न युक्त मिति नेष्यते ॥” [वादन्यापृ० १] इति । अत्र हि स्वपक्षं साधयन् वादिप्रतिवादिनोरन्यतरोऽसाधनाङ्गवचनादऽदोषोद्भावनाद्वा परं निगृह्णाति, असाधयन्वा ? प्रथमपक्षे स्वपक्षसिद्ध्यैवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे तु असाधनाङ्गवचनाद्युद्भावनेपि न कस्यचिजयः पक्षसिद्धरुभयोर-२५ भावात् ।
यच्चास्य व्याख्यानम्-“साधनं सिद्धिः तदङ्गं त्रिरूपं लिङ्गम् , तस्याऽवचनं तूष्णींभावो यत्किञ्चिद्भाषणं वा । साधनस्य वा
१ समासोत्र वृत्तिः। २ स्यादेव। ३ अधिकत्वान्निग्रहस्थानत्वं कः कारयेत्तद्वचनस्य । ४ निरर्थकत्वान्निग्रहस्थानं भविष्यतीत्युक्ते सत्याह । ५ स्वीकृतागमविरुद्धप्रसाधनमपसिद्धान्तो नाम निग्रहस्थानम् । ६ प्रतिपक्षसियभावे । ७ सौगतमतमेतत् । ८ आदिना अदोषोद्भावनादि । ९ वादिप्रतिवादिनः। १० एतदीयं व्याख्यानमस्त्यग्रे। ११ असाधनाङ्गवचनं वादिन एव निग्रहस्थानमदोषोद्भावनं तु प्रतिवादिन एवेति द्वयोरिति पदमुक्तम् । १२ हेतोः। १३ अन्यस्य दोषस्य । ...
२०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org