________________
६७२
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० त्रिरूपलिङ्गस्याङ्गं समर्थनम् विपक्षे बाधकप्रमाणदर्शनरूपम् , तस्याऽवचनं वादिनो निग्रहस्थानम्" [वादन्यायपृ०५-६] इति । तत्पञ्चावयवप्रयोगवादिनोपि समानम्-शक्यं हि तेनाप्येवं वक्तुम्-सियङ्गस्य पञ्चावयवप्रयोगस्यावचनात्सौगतस्य वादिनो ५ निग्रहः । ननुं चास्य तदवचनेपि न निग्रहः, प्रतिज्ञानिगमनयोः पक्षधोपसंहारस्य सामर्थ्याद्गम्यमानत्वात् । गम्यमानयोश्च वचने पुनरुक्तत्वानुषङ्गात्। ननु तत्प्रयोगेपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धिः, इत्यप्यपेशलम् ; पक्षधर्मोपसंहारस्याप्येवमवचनानुष
ङ्गात् । अथ सामर्थ्यागम्यमानस्यापि 'यत्सत्तत्सर्व क्षणिकं यथा २.घटः संश्च शब्दः' इति पक्षधर्मोपसंहारस्य वचनं हेतोरपक्षध.
मत्वेनासिद्धत्वव्यवच्छेदार्थम् । तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानस्यापि पक्षस्य निगमनस्य च पक्षहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थ वचनं किन्न स्यात् ? न हि पक्षादीनामेकार्थ. त्वोपदर्शनमन्तरेण सङ्गतत्वं घटते; भिन्नविषयपक्षादिवत् । २९५ ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात्,
अन्यथा नास्याः साधनाङ्गतेति चेत् ; तर्हि भवतोपि हेतुतः साध्यसिद्धौ दृष्टान्तोनर्थकः स्यात्, अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोाप्तिप्रदर्शनार्थत्वाद् दृष्टान्तो नानर्थकः तत्र तदप्रदर्शने हेतोरगमकत्वात् ; इत्यप्यसङ्गतम् ; सर्वानित्यत्व२० साधने सत्त्वादेदृष्टान्ताऽसम्भवतोऽगमकत्वानुषङ्गात् । विपंक्षव्या
वृत्त्या सत्त्वादेर्गमकत्वे वा सर्वत्रापि हेतौ तथैव गमकत्वप्रसङ्गाद् दृष्टान्तोनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् ? तस्याश्चानभिधाने क हेतुः साध्यं वा
वर्तेत ? गम्यमाने प्रतिज्ञाविषये एवेति चेत्, तर्हि गम्यमानस्यैव २५ हेतोरपि समर्थनं स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम् तथा प्रतिज्ञावचने कोऽपरितोषः?
यञ्चेदम्- असाधनागम्' इत्यस्य व्याख्यान्तरम्-“साधर्मेण हेतोर्वचने वैधर्म्यवेचनं वैधhण वा प्रयोगे साधर्म्यवचनं गम्य
मानत्वात् पुनरुक्तम् । अतो न साधनाङ्गम् ।" [वादन्यायपृ० ३०६५] इत्यप्यसाम्प्रतम्; यतः सम्यक्साधनसामथ्र्येन खपक्षं साधयतो वादिनो निग्रहः स्यात्, अप्रसाधयतो वा? प्रथमपक्षे कथं
१ व्याख्यानम् । २ योगस्य । ३ सौगतमतमालम्ब्याचार्येणोच्यते । ४ प्रतिज्ञा निगमनप्रकारेण । ५ व्यतिरेकेण । ६ सौगतव । ७ हेतुतः साध्यसिद्धिर्न भवतीति चेत् । ८ साध्यस्याऽशापको भवति हेतुरिति भावः। १ विपक्षोत्र नित्यः । १० सौगतः। ११ प्रतिपादनम् । १२ हेतोर्वचने। १३ प्रतिपादनम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org