________________
प्रमेयकमलमार्त्तण्डे [५. तदाभासपरि
च्छ्रुताच्छेदस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्प रया तथा प्रतिज्ञाद्यवयवयुत्क्रमात् तत्क्रमस्मरणं ततो वाक्यार्थ. प्रत्ययो न तद्युत्क्रमात् इत्यप्यसारम् एवंविधप्रतीत्यभावात् । यस्माद्धि शब्दादुच्चरिताद्यत्रार्थे प्रतीतिः स एव तस्य वाचको ५ नान्यः, अन्यथा 'शब्दात्तत्क्रमाच्चापशब्दे तच्छ्रुत्क्रमे च स्मरणं ततो ऽर्थप्रतीतिः' इत्यपि वक्तुं शक्येत । एवं शब्दाद्यन्वाख्यानवैयर्थ्य चेत्; न; एवं वादिनोऽनिष्टमात्रापादनात्, अपशब्देपि चान्वाख्यानस्योपलम्भात् । 'संस्कृताच्छन्दात्सत्याद्धर्मोन्यस्मादऽधर्मः' इति नियमे चान्यधर्माधर्मोपायानुष्ठानवैयर्थ्यम् । धर्माधर्मयोश्चाप्रति१० नियमप्रसङ्गः; अधार्मिके धार्मिके च तच्छब्दोपलम्भात् । भवतु वा तत्क्रमादर्थप्रतीतिः, तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन व्युत्क्रम्यते तन्निरर्थकं न त्वप्राप्तकालमिति ।
६६८
"शब्दार्थयोः पुनर्वचनं रुमत् ।" [ न्यायसू० ५।२।१४ ] तत्रार्थपुनरुक्तमेवोपपन्नं न शब्दपुनरुक्तम् ; अर्थमेदे १५ शब्द साम्येप्यस्याऽसम्भवात्
२०
३६
१५
“हसति हसति स्वामिन्युच्चैरुदत्यति रोदिति, कृर्तपरिकरं खेदोहोरि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, धनल परिक्रीतं यत्रं प्रनृत्यति नृत्यति ।" [ वादन्यायपृ० १११] इत्यादिवत् । ततः स्वष्टार्थवाचकैस्तैरेवान्यैर्वा शब्दैः सत्याः प्रतिपादनीयाः । तत्प्रतिपादकशब्दानां तु सकृत्पुनः पुनर्वाभि धानं निरर्थकं न तु पुनरुक्तम् । यद्य (द) प्यर्थादापस्य स्वशब्देन पुनर्वचनं पुनरुक्तमुक्तम् । यथा 'उत्पत्तिधर्मकम नित्यम्' २५ इत्युक्त्वाऽर्थादापन्नस्यार्थस्य योऽभिधायकः शब्दस्तेन स्वशब्देन ब्रूयात् 'नित्यमनुत्पत्तिधर्मकम्' इति । तदपि प्रतिपन्नार्थ प्रतिपादकत्वेन वैयर्थ्यान्निग्रहस्थानं नान्यथा । तथा चेदं निरर्थकान विशेष्येतेति ।
१ सत्यशब्दस्य । २ स्मृतशब्दात् । ३ विपर्ययात् । ४ स्मृतक्रमात् । ५ स्मृतापशब्दात्स्मृततत्क्रमात् । ६ शब्दादेरपशब्दादिस्मरणप्रकारेण । ७ पुनः पुनः कथनमन्वाख्यानम् । ८ संस्कृता च्छन्दाद्धर्मोऽन्यस्मादधर्म इति नियमान्नापशब्दे ऽन्वाख्यापनमस्तीत्युक्ते सत्याह । ९ इज्याऽध्ययनादिरन्यः । १० सति । ११ क्रियाविशेषणम् । १२ क्रियाविशेषणम् । १३ मौल्येन सङ्गृहीतम् । १४ यत्रमिव यत्रं = भृत्यः । १५ शब्दपौनरुक्त्यमुपपन्नं न भवेद्यतः । १६ प्रथमोच्चारितैः । १७ कथनानन्तरमेकवारम् । १८ अर्थस्य । १९ पुनरुक्तत्व प्रकारेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org