________________
सू० ६७३] जय-पराजयव्यवस्था तयोरज्ञानं नाविज्ञातार्थ वर्णक्रमनिर्देशवत् । ततो नेदमभि(वि) ज्ञातार्थ निरर्थकाद्भिद्यते इति ।
"पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ।" [ न्यायसू० ५। २१०] यथा दश दाडिमानि षडपूपाः कुण्डमजाऽजिनं पललपिण्डः। __ इत्यपि निरर्थकान भिद्यते-यथैव हि जबगडदश्त्वादौ वर्णानां नैरर्थक्यं तथात्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्णनैरर्थक्यादन्यत्वान्निग्रहस्थानान्तरमभ्युपगम्यते; तर्हि वाक्यनरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् । पदवत् पौर्वापर्येणा(ण)प्रयुज्यमानानां वाक्यानामप्यनेकधोपलम्भात्। १० "शङ्खः कदल्यां कदली च भेर्या तस्यां च मेर्या सुमहद्विमानम्। तच्छलभेरीकदलीविमानमुन्मत्तगङ्गप्रतिमं वभूव॥"[ ] इत्यादिवत् । यदि पुनः पदनैरर्थक्यमेव वाक्यनरर्थक्यं पदसमुदायात्मकत्वात्तस्य; तर्हि वर्णनैरर्थक्यमेव पदनैरर्थक्यं स्याद्वर्णसमुदायात्मकत्वात्तस्य । वर्णानां सर्वत्र निरर्थकत्वात्पद-१५ स्यापि तत्प्रसङ्गश्चेत्, तर्हि पदस्यापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि नैरर्थक्यानुषङ्गः। पदार्थापेक्षया पदस्यार्थवत्त्वे वर्णार्थापेक्षया वर्णस्यापि तदस्तु प्रकृतिप्रत्ययादिवर्णवत् । न खलु प्रकृतिः केवला पदं प्रत्ययो वा, नाप्यनयोरनर्थकत्वम् । अभिव्यक्तार्थाभावादनर्थकत्वे पदस्यापि तत्स्यात् । यथैव हि प्रकृत्यर्थः२० प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या तयोः केवलयोरप्रयोगात्, तथा 'देवदत्तस्तिष्ठति' इत्यादिप्रयोगे सुबन्तपदार्थस्य तिङन्त. पदेन तिङन्तपदार्थस्य च सुबन्तपदेनाभिव्यक्तेः केवलँस्याप्रयोगः। पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य समानमिति ।
२५ "अवयवविपर्यासवचनमप्राप्तकालम् ।" [ न्यायसू० ५।२।११] अवयवानां प्रतिज्ञादीनां विपर्यासेनाभिधानमप्राप्तकालं नाम निग्रहस्थानम् । इत्यप्यपेशलम् । प्रेक्षावतां प्रतिपत्तॄणामवयवक्रमनियम विनाप्यर्थप्रतिपत्त्युपलम्भादेवदत्तादिवाक्यवत्। ननु यथापशब्दा
१ पूर्वापराऽसङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानम्। २ उन्मत्ता गङ्गा यस्मिन्प्रदेशेऽसावुन्मत्तगङ्गः। ३ वाक्ये पदे च । ४ प्रकृत्यादावपि पदानामेवार्थवत्त्वं न पुनर्वर्णानां येन दृष्टान्तः सिद्धः स्यादित्युक्ते सत्याह । ५ वर्णस्य । ६ पदस्य । ७ सार्थकत्वम् । ८ यथाक्रमोल्लङ्घनेन प्रयुज्यमानमनुमानवाक्यम् । ९ अप्राप्तावसरम् । १० देवदत्त गामभ्याज शुक्लां दण्डेनेत्यादिवत्। ...
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org