Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 837
________________ ६७३ सू० ६७३] जय-पराजयव्यवस्था साध्यसिद्ध्यऽप्रतिबन्धिवचनाधिक्योपलम्भमात्रेणास्य निग्रहो विरोधात् ? नन्वेवं नाटकादिघोषणातोप्यस्य निग्रहो न स्यात्, सत्यमेवैतत् ; स्वसाध्यं प्रसाध्य नृत्यतोपि दोषाभावाल्लोकवत् । अन्यथा ताम्बूलभक्षणभ्रूक्षेपखात्कृताकम्पहस्तास्फालनादिभ्योपि सत्यसाधनवादिनो निग्रहः स्यात् । अथ स्वपक्षमप्रसाधयतोस्य५ निग्रहः, नन्वत्रापि किं प्रतिवादिना खपक्षे साधिते वादिनो वचनाधिक्योपलम्भान्निग्रहो लक्ष्येत, असाधिते वा? प्रथमविकल्पे स्वपक्षसिध्यैवास्य निग्रहाद्वचनाधिक्योद्भावनमनर्थकम् , तस्मिन् सत्यपि वपक्षसिद्धिमन्तरेण जयायोगात् । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा स्यात्स्व-१० पक्षसिद्धेरभावाविशेषात् । ननु न खपक्षसिद्ध्यसिद्धिनिवन्धनौ जयपराजयौ तयोर्शानाज्ञाननिबन्धनत्वात् । साधनवादिना हि साधु साधनं ज्ञात्वा वक्तव्यं दूषणवादिना च तद्दूषणम् । तत्र साधर्म्यवचनाद्वैधर्म्यवचनाद्वाऽर्थस्य प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसा-१५ धनाङ्गवचनस्योद्भावनात् साधुसाधनाभिधानाज्ञानसिद्धेः पराजयः, प्रतिवादिनस्तु तद्दूषणज्ञाननिर्णयाजयः स्यात् । इत्यप्यविचारितरमणीयम्; विकल्पानुपपत्तेः । स हि प्रतिवादी निर्दोषसाधनवादिनो वचनाधिक्यमुद्भावयेत्, साधनाभासवादिनो वा? तत्राद्यविकल्पे वादिनः कथं साधुसाधनाभिधानाऽज्ञानम्,२० तद्वचनेयत्ताज्ञानस्यैवासम्भवात् ? द्वितीयविकल्पे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते साधनाभासस्यानुद्भावनात् । तद्वचना. धिक्यदोषस्य ज्ञानाद्दूषणशोसाविति चेत् ; साधनाभासाज्ञानाददूषणशोपीति नैकान्ततो वादिनं जयेत्, तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तः । अथ वचनाधिक्यदोषोद्भाव-२५ नादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् । नन्वेवं साधनाभासानुद्भावनात्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्प्येत? अथ वचनाधिक्यं साधनाभासं चोद्भावयतः प्रतिवादिनो जयः; कथमेवं साधर्म्यवचने वैधर्म्यवचनं तद्वचने वा साधर्म्यवचनं जयाय प्रभवेत् ? ३० १ सम्यक्साध्यसिद्धिश्चेन्निग्रहः कथं निग्रहश्चेत्सा कथमिति विरोधः । २ साध्यसिद्धयप्रतिबन्धिवचनाधिक्यमात्रतोपि न निग्रह इति प्रकारेण । ३ साधनदूषणं शात्वा वक्तव्यम् । ४ साध्यलक्षणस्य । ५ एतावत्परिमाणेन साधुसाधनं वाच्यमिति ज्ञानस्य । ६ सर्वथा। ७ ततश्च जयायैवोभयवचनम् । प्र. क. मा० ५७ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920