________________
सू० ३।१०१] स्फोटवादः
४५७ __ यच्च श्रवणव्यापारानन्तरमित्याद्युक्तम् । तदप्यसारम् ; घटादिशब्देषु परस्परव्यावृत्तकालप्रत्यासत्तिविशिष्टवर्णव्यतिरेकेण स्फोटात्मनोऽर्थप्रकाशकस्यैकस्याध्यक्षप्रतिपत्तिविषयत्वेनाप्रतिभासनात् । न चाभिन्नप्रतिभासमात्रादभिन्नार्थव्यवस्था, अन्यथा दूरादविरलानेकतरुषु एकप्रतिभासादेकत्वव्यवस्था स्यात् । न ५ चास्य बाध्यमानत्वान्नैकत्वव्यवस्थापकत्वम्स्फोटप्रतिभासेपि बाध्यमानत्वस्य प्रदर्शितत्वात् । न खलु निरवयवोऽक्रमो नित्यत्वादिधर्मोपेतोऽसौ कचिदपि प्रत्ययेऽवभासते।।
कथं चैवं शब्दस्फोटवद्गन्धादिस्फोटोप्यऽर्थप्रतीति निमित्तं न स्यात् ? यथैव हि शब्दः कृतसङ्केतस्य क्वचिदर्थे प्रतिपत्तिहेतुस्तथा १० गन्धादिरप्यविशेषात् । 'एवंविधमेकं गन्धं समाघ्राय स्पर्श च संस्पृश्य रसं चास्वाद्य रूपं चालोक्य त्वयैवंविधार्थः प्रतिपत्तव्यः' इति समयग्राहिणां पुनः क्वचित्तादृशगन्धाधुपलम्भात् तथाविधार्थनिर्णयप्रसिद्धो गन्धादिविशेषाभिव्यङ्गयो गन्धादिस्फोटोऽस्तु [वर्ण ]विशेषाभिव्यङ्ग्यपदादिस्फोटवत्।
१५ एतेन हस्तपादकरणमात्रिकाङ्गहारादिस्फोटोप्यापादितो द्रष्टव्यः । पदादिस्फोट एव, न तु खावयंवक्रियाविशेषाभिव्यङ्गयो हंसपक्ष्मादिर्हस्तस्फोटः, विकुट्टितादिलक्षणः पादस्फोटः, हस्तपादसायोगलक्षणः करणस्फोटः, करणद्वयरूपो मात्रिकास्फोटः, मात्रिकासमूहलक्षणोऽङ्गहारस्फोटो वेति मनोरथमात्रम् तस्यापि २० स्वस्वावयवाभिव्यङ्ग्यस्य स्वाभिनेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणत्वात् । तन्निराकरणे वा शब्दस्फोटाभिनिवेशो दूरतः परि
१ परेण। २ धकारात् टकारो व्यावृत्त इत्यादिप्रकारेण। ३ पूर्वक्षणे धकारोचारणमुत्तरक्षणे टकारोच्चारणमिति । ४ यद्यपि घटादिशब्देषु परस्परव्यावृत्तकालप्रत्यासत्तिविशिष्टवर्णव्यतिरेकेण स्फोटः प्रत्यक्षविषयत्वेन नावभासते तथापि अभिन्नप्रतिभासोस्ति । ननु ततः स्फोटव्यवस्था भविष्यतीत्याशङ्कायामाह। ५ शब्देषु स्फोटस्य । ६ समीपं गते सति । ७ अनेकतरुप्रतीत्या। ८ स्फोटः । ९ श्रवणेन्द्रिय. विषयभूते शब्दे शब्दस्यार्थप्रतिपादकत्वाभावादर्थप्रतिपत्त्यर्थ स्फोटकल्पने प्राणेन्द्रियादिविषयेषु गन्धादिषु तदर्थ चत्वारः स्फोटाः कल्पनीयास्तेषामपि तदभावादिति भावः । १० गन्धादिस्फोटनिराकरणद्वारेण शब्दादिस्फोटं निराकुर्वन्तीति भावः। ११ अस्य शब्दस्यायमर्थ इति । १२ जातिकुसुमादीनामग्यादीनामाम्रफलादीनां कामिन्यादीनां च प्रतिपत्तिहेतुः। १३ अर्थे कृतसंकेतस्य । १४ गन्धादिस्फोटस्य कथं सङ्केत इत्याशक्कायामाह। १५ यथाविधः पूर्व श्रुतः। १६ गन्धादिस्फोटापादनपरेण अन्थेन । १७ नर्तनसमये नृत्यकारस्य । १८ अवयवाः इस्तपादादयोङ्गुत्यादयश्च । १९ विकुट्टितं भ्रमणम् । २० युगपदयापारः समायोगः। २१ अभिनेयः अनुकरणम् । . प्र. क. मा० ३९
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only