________________
५०७
सू० ४।६] सम्बन्धसद्भाववादः वा वर्तमानोऽन्यनिस्पृहः कार्यकारणयोरन्यतरानपेक्षो नैकवृ. त्तिमान् सम्बन्धो युक्तः, तदभावेपि-कार्यकारणयोरभावपि तद्भावात् । यदि पुनः कार्यकारणयोरेकं कार्य कारणं वापेक्ष्यान्यत्र कार्य कारणे वासौ सम्बन्धः क्रमेण वर्त्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते; तदानेनापेक्ष्यमाणेनोपकारिणा भवितव्यं५ यस्मादुपकार्यऽपेक्ष्यः स्यान्नान्यः । कथं चोपकरोत्यऽसन् ? यदा कारणकाले कार्याख्यो भावोऽसन् तत्काले वा कारणाख्यस्तदा नैवोपंकुर्यादसामर्थ्यात् ।
किञ्च, यद्येकार्थाभिसम्बन्धात्कार्यकारणता तयोः कार्यकारणभावत्वेनाभिमतयोः; तर्हि द्वित्वसंख्यापरत्वापरत्वविभागादि-१० सम्बन्धात्प्राप्ता सा सव्येतरगोविषाणयोरपि । न येन केनचिदेकेन सम्बन्धात्सेष्यते; किं तर्हि ? सम्बन्धलक्षणेनैवेति चेत्, तन्न; द्विष्ठो हि कश्चित्पदार्थः सम्बन्धः, नातोर्थद्वयाभिसम्बन्धाद. न्यत्तस्य लक्षणम् , येनास्य संख्यादेविशेषो व्यवस्थाप्येत ।
कस्यचिद्भावे भावोऽभावे चाभावः तावुपाधी विशेषणं यस्य १५ योगस्य सम्बन्धस्य स कार्यकारणता यदि न सर्वसम्बन्धः; तदा तावेव योगोपाँधी भावाभावी कार्यकारणताऽस्तु किमसत्सम्बन्धकल्पनया ? मेदीच्चेत् 'भावे हि भावोऽभावे चाभावः' इति बहवोभिधेयाः कथं कार्यकारणतेत्येकार्थाभिधायिना शब्देनोच्यन्ते ? नन्वयं शब्दो नियोक्तारं समाश्रितः। नियोक्ता हि यं २० शब्दं यथा प्रयुङ्क्ते तथा प्राँह, इत्यनेकत्राप्येका श्रुतिर्न विरुध्यते इति तावेव कार्यकारणता। - यस्मात् पश्यन्नेक कारणाभिमतमुपलब्धिलक्षणप्राप्तस्याऽदृष्टेस्य कार्याख्यस्य दर्शने सति तददर्शने च सत्यऽपश्यत्कार्यमन्वेति
१ 'अन्यनिस्पृहस्य' प्रत्यर्थः। २ प्रत्यर्थः। ३ अन्यतरस्य । ४ अस्य कार्यस्येदं कारण मिति । ५ हेतोः। ६ कार्येण कारणेन वा। ७ सम्बन्धेन । ८ लोके । ९ कार्य कारणमपेक्ष्य कारणे कार्यमपेक्ष्य यो वर्तते सम्बन्धस्तम् । १० खरविषाणादिवत् । ११ सम्बन्धलक्षण। १२ द्वन्दः। १३ आदिना पृथक्त्वादि । १४ द्वित्वसंख्यालक्षणकार्थाभिसम्बन्धस्याविशेषात्। १५ एकेन सह । १६ कार्यस्य कारणस्य वा। १७ कार्यकारणतायाः स्यात् । १८ भावाभावौ। १९ उपाधिः-विशेषणम् । २० सम्बन्धः । २१ जनानाशयाह बौद्धः। २२ भावाभावाभ्यां कार्यकारणभावसम्बन्धस्य । २३ सम्बन्धस्य । २४ चत्वारोऽर्थाः। २५ कार्यकारणसम्बन्धप्रतिपादकः कार्यकारणलक्षणः। २६ एकार्थमभिप्रेत्यानेकार्थ वाभिप्रेत्य। २७ एकार्थाननेकार्थान्वा। २८ यथोदधिशब्दः उदकानि अस्मिन्धीयन्ते स उदधिरित्यादिः। २९ कारणाभिमतपदार्थदर्शनात्पूर्वम् ।
२3
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org