________________
६५२
प्रमेयकमलमार्तण्डे [४. विषयपरि० तंत्र साधर्म्यसमां जाति न्यायभाष्यकारो व्याचष्टे-साधयेणोपसंहारे कृते साध्यधर्मविर्ययोपपत्तेः साधर्म्यण प्रत्यवस्थान साधर्म्यसमः प्रतिषेधः। निदर्शनम्-'क्रियावानात्मा, क्रियाहेतुगुणाश्रयत्वात् , यो यः क्रियाहेतुगुणाश्रयः स स क्रियावान् यथा ५लोष्टः, तथा चात्मा, तस्माक्रियावान्' इति साधोदाहरणेनोपसंहारे कृते परः साध्यधर्मविपर्ययोपपत्तितः साधोदाहरणेनैव प्रत्यवतिष्ठते-'निष्क्रिय आत्मा विभुद्रव्यत्वादाकाशवत्' इति । ने चास्ति विशेषः-'क्रियावत्साधाक्रियांवता भवितव्यं न पुनर्निष्क्रियत्वसाधानिष्क्रियेण' इति साधर्म्यसमो दूषणाभासः। न १० ह्यात्मनः क्रियावत्त्वे साध्ये क्रियाहेतुगुणाश्रयत्वस्य हेतोः खसा
ध्येन व्याप्तिः विभुत्वानिष्क्रियत्वसिद्धौ विच्छिद्युते । न च तद्विच्छेदे तदूषणत्वम्, साध्यसाधनयोाप्तिविच्छेदसमर्थस्यैव दोषत्वेनोपवर्णनात् ।
वार्तिककारस्त्वेवमाह-साधय॒णोपसंहारे कृते तद्विपरीतसा१५धर्येण प्रत्यवस्थानं वैधय॒णोपसंहारे तत्साधम्र्येण प्रत्यवस्थानं
साधर्म्यसमः । यथा 'अनित्यः शब्द उत्पत्तिधर्मकत्वात्कुम्भादिवत्' इत्युपसंहृते परः प्रत्यवतिष्ठते-यद्यऽनित्यघटसाधादयमनित्यो नित्येनाप्याकाशेनास्य साधर्म्यमूर्त्तत्वमस्तीति नित्यः प्राप्तः । तथा 'अनित्यः शब्द उत्पत्तिधर्मकत्वात् , यत्पुनरनियं २० न भवति तन्नोत्पत्तिधर्मकम् यथाकाशम्' इति प्रतिपादिते परः
प्रत्यवतिष्ठते-यदि नित्याकाशवैधादनित्यः शब्दस्तदा साधर्म्यमप्यस्याकाशेनास्त्यमूर्त्तत्वम् , अतो नित्यः प्राप्तः । अथ सत्यप्येतस्मिन्साँधम्र्ये नित्यो न भवति, न तर्हि वक्तव्यम्-'अनित्यघट
साधान्नित्याकाशवैधाच्चाऽनित्यः शब्दः' इति । २५ वैधय॑समायास्तु जातेः-वैधय॒णोपसंहारे कृते साध्यधर्मविपर्ययाद्वैधर्येण साधर्येण वा प्रत्यवस्थानं लक्षणम् । 'यथात्मा
१ जातिषु मध्ये। २ साध्यस्य । ३ साधनवादिना । ४ सक्रियत्वलक्षणानिष्क्रियत्वं यथा विपर्ययः । ५ जातिवादिना । ६ गमनादि । ७ प्रयत्नोत्र गुणः। ८ अन्वयेन । ९ वादिना। १० प्रतिवादी। ११ क्रियावत्साधाक्रियावान्भवतु निष्क्रियत्वसाध
ानिष्क्रियो न भविष्यतीत्युक्ते सत्याह। १२ आत्मना। १३ निराक्रियते । १४ व्याप्तिविच्छेदो मा भवतु तद्दषणत्वं च भवत्वित्युक्ते सत्याह । १५ साध्यसम इति । १६ उक्तसाधर्म्यात् । १७ वैधर्म्यस्य । १८ वादिना। १९ जातिवादी । २० प्रतिकूलतया परिवर्त्तते। २१ तर्हि। २२ वादिना। २३ जातिवादी। २४ उक्तवैधात् । २५ यदि । २६ आकाशेन सह शब्दस्य । २७ घटेन सह शब्दस्य साधात् । २८ शब्दस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org