________________
सू० ६।७३ ]
६६१
वनसामर्थ्यम् तर्हि जातिप्रयोगेप्युत्तराभासवादिनः सम्यगुत्तराभिधानासामर्थ्यमेवावसीयेत न परोद्भावितजातिपरिहारासामर्थ्यम् । ननु सदुत्तराभिधानासामर्थ्यादेव तत्परिहारासाम
निश्चयः, तत्सद्भावे हि न सदुत्तराभिधानासामर्थ्यं स्यात्; एवं तर्हि सत्साधनाभिधानसामर्थ्यादेवास्य परोपन्यस्तजात्युद्भाव ५ नशक्त्यवसायोस्तु तदभावे तदभिधानसामर्थ्यायोगात् । सत्साधनाभिधानसमर्थस्यापि कदाचिदऽसदुत्तरेण व्यामोहसम्भवान्न तदुद्भावन सार्थ्यमवश्यंभावीति चेत् तर्हि जातिवादिनः सदुत्त राभिधानासमर्थस्यापि स्वोपन्यस्तपरोद्भावितोत्तराभास परिहारसामर्थ्य सम्भवात्पुनरुपन्यासश्चतुर्थोऽपेक्षणीयः स्यात् । साधन- १० वादिनोपि तत्परिहारनिराकरणाय पञ्चमः । पुनर्जातिवादिनस्तनिराकरणयोग्यतावबोधार्थ षष्ठ इत्यनवस्थानं स्यात् ।
जय-पराजयव्यवस्था
ननु नायं दोषः पर्यनुयोज्योपेक्षणस्य प्रतिवादिनाऽनुद्भावनात् 'कस्य पराजयः' इत्यनुर्युक्ताः प्राश्निका एव हि पूर्वपक्षवादिनः पर्यनुयोज्योपेक्षणमुद्भावयन्ति । न खलु निग्रहप्राप्तो जातिवादी स्वं १५ कौपीनं विवृणुयात् । तर्हि जात्यादिप्रयोगमपि तं एवोद्भावयन्तु न पुनः पूर्वपक्षवादी । पर्यनुयोज्योपेक्षणं ते पूर्वपक्षवादिन एवोद्भावयन्ति न जात्यादिवादिनो जात्यादिप्रयोर्गमिति महामाध्यस्थ्यं तेषां येनैकस्य दोषमुद्भावयन्ति नापरस्येति । ततः पूर्वपक्षवादिनं तूष्णींभावादिकमारचयन्तमुत्तराप्रतिपत्तिमुद्भावयन्नेव २० जातिवादी निगृह्णातीत्यभ्युपगन्तव्यम् ।
१०
तत्रापि कथम्भूतेनोत्तराप्रतिपत्युद्भावनेनासौ विजयते ? किं स्वोपन्यस्त जात्यपरिज्ञानोद्भीवनरूपेण, पॅरोद्भावितजात्यन्तर निराकरणलक्षणेन चो (वा, उ ) त्तराप्रतिपत्तिमात्रोद्भावनाऽऽकारेण वा? तंत्राद्यविकल्पे ' अपकर्षसमाऽन्या वा जातिर्मया प्रयुक्तापि २५ न ज्ञातानेने' इत्येवं स्वोपन्यस्तजात्यपरिज्ञानमुद्भावयन्नात्मनः सम्यगुत्तराप्रतिपत्तिमसम्बद्धाभिधायित्वं परकीयसाधनसम्यक्त्वं चोद्भावयतीति जात्युपन्यासवैयर्थ्यम्, अवश्यम्भावित्वात्प
१ प्रानिकानाम् । २ आद्यपक्षवादिनः । ३ ततश्च तृतीया जातिरुद्भावनीयेत्यधैः । ४ पृष्टाः । ५ जातिवाद्यहं जातिमुक्तवान् त्वया वादिना न सम्भावितेति न प्रतिपादयतीति भावः । ६ गुह्येन्द्रियम् । ७ प्रानिकाः । ८ नोद्भावयन्तीति संबन्धः । ९ उपहासवचनमिदम् । १० प्राश्निकानाम् । ११ प्रानिकानां माध्यस्थ्याभावो यतः । १२ जानन् । १२ परेण । १४ पक्षे । १५ वादिनम् । १६ पूर्वपक्षवादिनः । १७ परः =वादी । १८ जात्यन्तरं = जातिविशेषः । १९ त्रिषु विकल्पेषु मध्ये २० उत्कर्षसमा वा जातिः । २१ पूर्वपक्षवादिना । - २२ जातिवादी ।
प्र० क० मा० ५६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org