Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० प्रकृतं हेतुं प्रमाणसामर्थ्य नाहमसमर्थः समर्थयितुमित्यवस्यन्नपि कथामपरित्यजन्नर्थान्तरमुपन्यस्यति-नित्यः शब्दोऽस्पर्शवत्त्वाः दिति हेतुः। हेतुश्च हिनोतर्धातोस्तुप्रत्यये कृदन्तं पदम् , [पदं]च नामाख्यातोपसर्गनिपाता इति प्रस्तुत्य नामादीनि व्याचष्टे । ५ तदेतदप्यर्थान्तरं निग्रहस्थानं समर्थ साधने दूषणे वा प्रोक्ते निग्रहाय कल्प्येत, असमर्थे वा ? न तावत्समर्थे; स्वसाध्यं प्रसाध्य नृत्यतोपि दोषाभावाल्लोकवत् । असमर्थेपि प्रतिवादिनः पक्षसिद्धौ तेनिग्रहाय स्यात्, असिद्धौ वा? प्रथमपक्षे तत्पक्षसिद्ध्यैवास्य निग्रहो न त्वतो निग्रहस्थानात् । द्वितीयपक्षेप्यतो न निग्रहः पक्ष१० सिद्धरुभयोरप्यभावादिति।
"वर्णक्रमनिर्देशवनिरर्थकम् ।" [ न्यायसू० ५।२।८] यथाऽनित्यः शब्दो जबगडदश्त्वात् झभघढधवत् । इत्यपि सर्वथार्थशून्यत्वान्निग्रहाय कल्प्येत, साध्यानुपयोगाद्वा? तत्राद्यविकल्पोऽ.
युक्तः; सर्वथार्थशून्यस्य शब्दस्यैवासम्भवात् । वर्णक्रम निर्देशस्या१५प्यनुकार्येणार्थनार्थवत्त्वोपपत्तेः। द्वितीयविकल्पे तु सर्वमेव निग्रह
स्थानं निरर्थकं स्यात्; साध्यसिद्धावनुपयोगित्वाविशेषात् । केन- . चिद्विशेषमात्रेण भेदे वा खात्कृताकम्पहस्तास्फालनकक्षापिट्टिकादेरपि साध्यसिध्यनुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति ।
"परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविशीतार्थम् ।" २० [न्यायसू० ५।२।९] अत्रेदमुच्यते-वादिना त्रिरभिहितमपि वाक्यं परिषत्प्रतिवादिभ्यां मन्दमतित्वादविज्ञातम् , गूढाभिधानतो वा, द्रुतोच्चाराद्वा? प्रथमपक्षे सत्साधनवादिनोप्येतन्निग्रहस्थानं स्यात्, तत्राप्यनयोर्मन्दमतित्वेनाविज्ञातत्वसम्भवात् । द्वितीयपक्षे तु
पत्रवाक्यप्रयोगेपि तत्प्रसङ्गो गूढाभिधानतया परिषत्प्रतिवादि२५ नोर्महाप्राशयोरप्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येत. द्वादी व्याचष्टे, गूढोपन्यासमप्यात्मनः स एव व्याचष्टाम् । अव्याख्याने तु जयाभाव एवास्य न पुनर्निग्रहः, परस्य पक्षसिद्धे. रभावात् । द्रुतोच्चारेपि अनयोः कथञ्चित् ज्ञानं सम्भवत्येव सिद्धान्तद्वयवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमाने
१ अस्पर्शवत्वादिति । २ वादी । ३ वादम् । ४ प्रकृतार्थ परित्यज्यान्यमर्थ ब्रूते इत्यर्थः । ५ तस्य वादिनः। ६ वादिप्रतिवादिनोः । ७ अर्थरहितशब्दोच्चारणं निरर्धक नाम निग्रहस्थानम् । ८ पश्चाक्रियमाणेन । ९ निरर्थकत्वान्निग्रहस्थानानाम् । १० वादिना। ११ वादिना त्रिरुपन्यस्तमपि परिषत्प्रतिवादिभ्यामविशातमविशातार्थ नाम निग्रहस्थानं वादिनः । प्रतिवादिनोप्येवम् । १२ तामार्शम् । .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920