Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 826
________________ प्रमेयकमलमार्तण्डे [५. तदाभासपरि० राजयस्य । परेणाविज्ञातमात्मनो दोषं स्वयमुद्भावयन्नपि न पराजयमास्कन्दतीति चेत् ; परेणाविज्ञातः स दोष इति कुतोऽवसि. तम् ? तूष्णींभावादन्यस्य चोद्भावनादिति चेत् ;न; वादविस्तरपरिहारार्थत्वात्तस्य । स्ववाग्यन्त्रिता हि वादिनो न विचलिष्यन्तीति ५स्वयमुद्भावनीयं दोषं परेणोद्भावयितुं तूष्णींभावोऽन्यस्य चोद्भावनं नाज्ञानात् । स्वयमुद्भाविते हि दोषे जात्यादिवादी तत्परिहा. रार्थ किञ्चिदन्यद्भूयादिति न वादावसानं स्यात् । परस्याऽज्ञानमाहात्म्यख्यापनार्थ वाः पश्यतैवंविधमस्याज्ञानमाहात्म्यं येन खयमेव स्वदोषकलापमस्मत्साधनस्य सम्यक्त्वं चोद्भावयतीति । १०एवं साध्येन पूर्वपक्षवादिना प्रत्यर्वस्थिते किमत्र जातिवादी ब्रूयात्-'जातिर्मया प्रयुक्तापि न ज्ञातानेनेति वचनांदुत्तरकालमनेनावसितो दोषकलापो न प्राक, अतोऽज्ञानेनैव प्रतिवादिना तूष्णीभूतमन्यद्वोद्भावितम्' इति । अत्रापि शपथः शरणम् । ननु यदि नाम जानतैव पूर्वपक्षवादिना तूष्णीभूतमन्यद्वोद्भावितं १५ तथापि तेन सदुत्तरानभिधानात्कथं नास्य पराजयः स्यात् ? तदे. तजातिवादिनो जात्युपन्यासेपि समानं जातीनां दूषणाभासत्वात् । तस्मान्न खोपन्यस्तजात्यपरिज्ञानोद्भावनरूपेणोत्तराऽप्रतिपत्त्युद्भावनेन तूष्णीभूतमन्यद्वोद्भावयन्त मितरं निगृह्नोति । द्वितीयविकल्पे वोपन्यस्ता जातिः कथं परोद्भावितजात्यन्त२० ररूपा न भवतीति वादिनेतरः प्रतिपाद्यते? न तावत्स्वोपन्यस्त जातिवरूपानुवादेन, यथा नेयमुत्कर्षसमा जातिरपकर्षसमत्वादस्या इति; प्रथमपक्षोदितदोषप्रसङ्गात् । नाप्यनुपलम्भात्; अनुपलम्भमात्रस्याप्रमाणत्वात् । अनुपलम्भविशेषस्यापि स्वोपन्यस्त जातिवरूपोपलम्भलक्षणत्वात् , तत्र चोक्तदोषप्रसङ्गात् । तन्न २५ जातिवादी जात्यन्तरमुद्भावयन्तं प्रतिवादिनं तदुद्भावितजात्यन्तरनिराकरणलक्षणेनोत्तराप्रतिपत्त्युद्भावनेन विजयते। नाप्युत्तराप्रतिपत्तिमात्रोद्भावनरूपेण; 'त्वया न ज्ञातमुत्तरम्' इत्युत्तराप्रतिपत्तिमात्रोद्भावने हि पूर्वपक्षवादिनस्तद्विशेषविषयः प्रश्नोऽवश्यंभावी 'मया तावदुत्तरमुपन्यस्तमेतच्च कथमनुत्तरम्' ३० इति । जातिवादिना चास्योत्तराप्रतिपत्तिर्विशेषेणोद्भावनीया १ वादिना । २ तूष्णीभावादेः। ३ प्रतिवादिना। ४ वादिना जात्युद्भावनेमि वादावसानं न भविष्यति ततश्च तूष्णींभावोऽन्योद्भावनं च वादावसानाय व्यर्धमित्युक्ते सत्याह । ५ प्रयोजनान्तरं तूष्णीभावादेराह । ६ निरीक्षध्वं यूयं सभ्याः। ७ बसः। .८ पर्यनुयुक्ते सति । ९ सकाशात् । १० पूर्वपक्षवादिना । ११ दोषम् । १२ पूर्वपक्षवादी । १३ दोषः उत्तराप्रतिपत्तिः । १४ जातिवादी । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920