________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० राजयस्य । परेणाविज्ञातमात्मनो दोषं स्वयमुद्भावयन्नपि न पराजयमास्कन्दतीति चेत् ; परेणाविज्ञातः स दोष इति कुतोऽवसि. तम् ? तूष्णींभावादन्यस्य चोद्भावनादिति चेत् ;न; वादविस्तरपरिहारार्थत्वात्तस्य । स्ववाग्यन्त्रिता हि वादिनो न विचलिष्यन्तीति ५स्वयमुद्भावनीयं दोषं परेणोद्भावयितुं तूष्णींभावोऽन्यस्य चोद्भावनं नाज्ञानात् । स्वयमुद्भाविते हि दोषे जात्यादिवादी तत्परिहा. रार्थ किञ्चिदन्यद्भूयादिति न वादावसानं स्यात् । परस्याऽज्ञानमाहात्म्यख्यापनार्थ वाः पश्यतैवंविधमस्याज्ञानमाहात्म्यं येन
खयमेव स्वदोषकलापमस्मत्साधनस्य सम्यक्त्वं चोद्भावयतीति । १०एवं साध्येन पूर्वपक्षवादिना प्रत्यर्वस्थिते किमत्र जातिवादी
ब्रूयात्-'जातिर्मया प्रयुक्तापि न ज्ञातानेनेति वचनांदुत्तरकालमनेनावसितो दोषकलापो न प्राक, अतोऽज्ञानेनैव प्रतिवादिना तूष्णीभूतमन्यद्वोद्भावितम्' इति । अत्रापि शपथः शरणम् । ननु
यदि नाम जानतैव पूर्वपक्षवादिना तूष्णीभूतमन्यद्वोद्भावितं १५ तथापि तेन सदुत्तरानभिधानात्कथं नास्य पराजयः स्यात् ? तदे.
तजातिवादिनो जात्युपन्यासेपि समानं जातीनां दूषणाभासत्वात् । तस्मान्न खोपन्यस्तजात्यपरिज्ञानोद्भावनरूपेणोत्तराऽप्रतिपत्त्युद्भावनेन तूष्णीभूतमन्यद्वोद्भावयन्त मितरं निगृह्नोति ।
द्वितीयविकल्पे वोपन्यस्ता जातिः कथं परोद्भावितजात्यन्त२० ररूपा न भवतीति वादिनेतरः प्रतिपाद्यते? न तावत्स्वोपन्यस्त
जातिवरूपानुवादेन, यथा नेयमुत्कर्षसमा जातिरपकर्षसमत्वादस्या इति; प्रथमपक्षोदितदोषप्रसङ्गात् । नाप्यनुपलम्भात्; अनुपलम्भमात्रस्याप्रमाणत्वात् । अनुपलम्भविशेषस्यापि स्वोपन्यस्त
जातिवरूपोपलम्भलक्षणत्वात् , तत्र चोक्तदोषप्रसङ्गात् । तन्न २५ जातिवादी जात्यन्तरमुद्भावयन्तं प्रतिवादिनं तदुद्भावितजात्यन्तरनिराकरणलक्षणेनोत्तराप्रतिपत्त्युद्भावनेन विजयते।
नाप्युत्तराप्रतिपत्तिमात्रोद्भावनरूपेण; 'त्वया न ज्ञातमुत्तरम्' इत्युत्तराप्रतिपत्तिमात्रोद्भावने हि पूर्वपक्षवादिनस्तद्विशेषविषयः
प्रश्नोऽवश्यंभावी 'मया तावदुत्तरमुपन्यस्तमेतच्च कथमनुत्तरम्' ३० इति । जातिवादिना चास्योत्तराप्रतिपत्तिर्विशेषेणोद्भावनीया
१ वादिना । २ तूष्णीभावादेः। ३ प्रतिवादिना। ४ वादिना जात्युद्भावनेमि वादावसानं न भविष्यति ततश्च तूष्णींभावोऽन्योद्भावनं च वादावसानाय व्यर्धमित्युक्ते सत्याह । ५ प्रयोजनान्तरं तूष्णीभावादेराह । ६ निरीक्षध्वं यूयं सभ्याः। ७ बसः। .८ पर्यनुयुक्ते सति । ९ सकाशात् । १० पूर्वपक्षवादिना । ११ दोषम् । १२ पूर्वपक्षवादी । १३ दोषः उत्तराप्रतिपत्तिः । १४ जातिवादी ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org