Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
सू० ६७३] जय-पराजयव्यवस्था 'मयोपन्यस्ताप्येषा जातिस्त्वया न ज्ञाता जात्यन्तरं चोद्भावितम्' इति । अत्र च प्रागुक्ताशेषदोषानुषङ्गः । तदेवमुत्तराऽप्रतिपत्त्युद्भावनत्रयेपि जातिवादिनः पराजयस्यैकान्तिकत्वात् 'ऐकान्तिकपराजयाद्वरं सन्देहः' इति जानन्नपि जात्यादिकं प्रयुक्रे इत्येत. द्वचो नैयायिकस्यानैयायिकतामाविर्भावयेत् । ततः स्वपक्षसिद्ध्यैव५ जयस्तदसिद्ध्या तु पराजयः, न तु मिथ्योत्तरलक्षणजातिशतैरपीति ।
नापि निग्रहस्थानैः । तेषां हि "विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्" [ न्यायसू० १२।१९ ] इति सामान्यलक्षणम् । विपरीता कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । अप्रतिपत्तिस्त्वा-१० रम्भविषयेऽनारम्भः, पक्षमभ्युपगम्य तस्याऽस्थापना, परेण स्थापितस्य वाऽप्रतिषेधः, प्रतिषिद्धस्य चाऽनुद्धार इति । प्रतिज्ञाहान्यादिव्यक्तिगतं तु विशेषलक्षणम् ।
तत्र प्रतिज्ञाहानेस्तावल्लक्षणम्-"प्रतिदृष्टान्तधर्म्य(मा)नुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः” [ न्यायसू०५।२।२] "साध्यधर्मप्रत्यनीकेन १५ धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञा जहातीति प्रतिज्ञाहानिः । यथा 'अनित्यः शब्द ऐन्द्रियिकत्वाद् घटवत्' इत्युक्ते परः प्रत्यवतिष्ठते-सामान्यमैन्द्रियिकं नित्यं दृष्टम् , कस्मान्न तथा शब्दोपि? इत्येवं खप्रयुक्तस्य हेतोराभास: तामवस्यन्नपि कथावसानमकृत्त्वा प्रतिज्ञात्यागं करोति-यद्यै-२० न्द्रियिकं सामान्यं नित्यं कामं घटोपि नित्योस्त्विति । न (स) खल्वयं ससाधनस्य दृष्टान्तस्य नित्यत्वं प्रसजनिगमनान्तमेव पक्षं जहाति । पक्षं च परित्यजन्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्य" [ न्यायभा० ५।२।२] ।
इति भाष्यकारमतमसङ्गतमेव; साक्षाद्रुष्टान्तहानिरूपत्वात्त-२५ स्यास्तत्रैव साध्यधर्मपरित्यागात् । परम्परया तु हेतूपनयनिगम
१ प्रागुक्त: उत्तराप्रतिपत्तिलक्षणादिः। २ पराजयो न भवतीति। ३ तत्त्वप्रतिपत्तेरभावो विप्रतिपत्तिः। ४ कथम् ? तथा हि । ५ वादिपक्षस्य । ६ अपरिहारः । ७ उक्त हेतौ दूषणोद्भावने सति पक्षाभ्युपगमः प्रतिज्ञा। ८ अभ्युपगमः। ९ धर्मधर्मिसमुदायः प्रतिज्ञा तस्या हानिः। १० प्रतिवादिना पर्यनुयुक्तो वादी। ११ परकीयोदाहरणधर्मम् । १२ वादिनः। १३ इन्द्रियग्राह्यत्वात् । १४ वादिना । १५ प्रतिवादी। १६ जानन् । १७ कथा वादः। १८ साधनवादी। १९ वादी। २० अभ्युपगच्छन् । २१ घटादिर्दृष्टान्तः । २२ प्रतिशाहानेः । २३ शब्दानित्यत्वं साध्यधर्मः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920