Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 815
________________ सू० ६७३] जय-पराजयव्यवस्था ६५१ नाप्युपचारच्छलम् । तस्य हि लक्षणम्-"धर्मविकल्पनिर्देशेऽ. र्थसैद्भावप्रतिषेध उपचारच्छलम्" [न्यायसू० ०२।१४] इति । धर्मस्य हि क्रोशनादेर्विकल्पोऽध्यारोपस्तस्य निर्देशे'मञ्चाः क्रोशन्ति गायन्ति' इत्यादौ तात्स्थ्यात्तच्छब्दोपचारेणासद्भूतार्थस्य तु परिकल्पनं कृत्वा परेण प्रतिषेधो विधीयते-'न मञ्चाक्रोशन्ति किन्तु५ मञ्चस्थाः पुरुषाः क्रोशन्ति' इति । तच्च परस्य पराजयाय जायते यथावक्तुरभिप्रायमप्रतिषेधात् । शब्दप्रयोगो हि लोके प्रधानभावेन गुणभावेन च प्रसिद्धः। ततो यदि वक्तुर्गौणोर्थोभिप्रेतः, तदा तस्यानुज्ञानं प्रतिषेधो वा विधातव्यः। अथ प्रधानभूतः तदा तस्य ताविति । यदा तु वक्ता गौणमर्थमभिप्रैति प्रधानभूतं परिकल्प्य १० परः प्रतिषेधति तदा तेन स्वमनीषा प्रतिषिद्धा स्यान्न परस्याभिप्रीय इति नौस्यायमुपालम्भः स्यात् , तदनुपालम्भाच्चासौ परजीयते; इत्यप्यविचारितरमणीयम्; यतो यद्येतीवतैवासौ निगृह्येत तर्हि यौगोपि सकलशून्यवादिनं प्रति मुख्यरूपतया प्रमाणादिप्रतिषेधं कुर्वनिगृह्येत, संव्यवहारेण प्रमाणादेस्तेनाभ्युपगमात् । १५ ततः स्वपक्षसिद्ध्यैव परस्य पराजयो न पुनश्छलमात्रेण । नापि जातिमात्रेण । तथाहि-तस्याः सामान्यलक्षणम्-"साधयंवैधाभ्यां प्रत्यवेस्थानं जातिः" [ न्यायसू० श२०१८ ] इति । तस्याश्चानेकत्वं साधयंवैधाभ्यां 'प्रत्यवस्थानस्य मेदात् । तथा च न्यायभाष्यकार:-"साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य २० विकल्पाँजातिवहुत्वमिति" [न्यायभा० ५।११] । ताश्च खल्विमा जातयः स्थापनाहेतौ प्रत्युक्ते चतुर्विंशतिः प्रतिषेधहेतवः"साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्रात्यऽप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसैमाः" [ न्यायसू० ५।११]२५ इति सूत्रकारवचनात् । १ मुख्यार्थप्रतिषेधः । २ उपचारः । ३ प्रयोगे कृते । ४ प्रतिवादिना । ५ वऋsभिप्रायानतिक्रमेण प्रतिषेधः स्यादिति भावः । ६ अनुशानप्रतिषेधौ विधातव्यौ, इयं व्यवस्था भवतु। ७ सा व्यवस्थात्रापि भविष्यतीत्युक्ते सत्याह । ८ प्रतिवादिना । ९ वादिनः। १० प्रतिषिद्धः। ११ वादिनः। १२ पराजयः। १३ तस्य वादिनः। १४ प्रतिवादी । १५ गौणेथेभिप्रेते मुख्यार्थप्रतिषेधमात्रेण । १६ ननु सकलशून्यवादिनाऽमुख्यरूपतयाभ्युपगतस्य प्रमाणादेर्मुख्यरूपतयैव प्रतिषेधं विदधानः कथं यौगो निगृह्यतेत्याशङ्कायामाह। १७ उपचारेण । १८ नैतावता प्रतिवादिनः पराजयो गतः । १९ दूषणम् । २० भेदात् । २१ विधिसाध्यस्य । २२ कार्याणि, तैः समाः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920