________________
सू० ६७३] जय-पराजयव्यवस्था
६५१ नाप्युपचारच्छलम् । तस्य हि लक्षणम्-"धर्मविकल्पनिर्देशेऽ. र्थसैद्भावप्रतिषेध उपचारच्छलम्" [न्यायसू० ०२।१४] इति । धर्मस्य हि क्रोशनादेर्विकल्पोऽध्यारोपस्तस्य निर्देशे'मञ्चाः क्रोशन्ति गायन्ति' इत्यादौ तात्स्थ्यात्तच्छब्दोपचारेणासद्भूतार्थस्य तु परिकल्पनं कृत्वा परेण प्रतिषेधो विधीयते-'न मञ्चाक्रोशन्ति किन्तु५ मञ्चस्थाः पुरुषाः क्रोशन्ति' इति । तच्च परस्य पराजयाय जायते यथावक्तुरभिप्रायमप्रतिषेधात् । शब्दप्रयोगो हि लोके प्रधानभावेन गुणभावेन च प्रसिद्धः। ततो यदि वक्तुर्गौणोर्थोभिप्रेतः, तदा तस्यानुज्ञानं प्रतिषेधो वा विधातव्यः। अथ प्रधानभूतः तदा तस्य ताविति । यदा तु वक्ता गौणमर्थमभिप्रैति प्रधानभूतं परिकल्प्य १० परः प्रतिषेधति तदा तेन स्वमनीषा प्रतिषिद्धा स्यान्न परस्याभिप्रीय इति नौस्यायमुपालम्भः स्यात् , तदनुपालम्भाच्चासौ परजीयते; इत्यप्यविचारितरमणीयम्; यतो यद्येतीवतैवासौ निगृह्येत तर्हि यौगोपि सकलशून्यवादिनं प्रति मुख्यरूपतया प्रमाणादिप्रतिषेधं कुर्वनिगृह्येत, संव्यवहारेण प्रमाणादेस्तेनाभ्युपगमात् । १५ ततः स्वपक्षसिद्ध्यैव परस्य पराजयो न पुनश्छलमात्रेण ।
नापि जातिमात्रेण । तथाहि-तस्याः सामान्यलक्षणम्-"साधयंवैधाभ्यां प्रत्यवेस्थानं जातिः" [ न्यायसू० श२०१८ ] इति । तस्याश्चानेकत्वं साधयंवैधाभ्यां 'प्रत्यवस्थानस्य मेदात् । तथा च न्यायभाष्यकार:-"साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य २० विकल्पाँजातिवहुत्वमिति" [न्यायभा० ५।११] । ताश्च खल्विमा जातयः स्थापनाहेतौ प्रत्युक्ते चतुर्विंशतिः प्रतिषेधहेतवः"साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्रात्यऽप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसैमाः" [ न्यायसू० ५।११]२५ इति सूत्रकारवचनात् ।
१ मुख्यार्थप्रतिषेधः । २ उपचारः । ३ प्रयोगे कृते । ४ प्रतिवादिना । ५ वऋsभिप्रायानतिक्रमेण प्रतिषेधः स्यादिति भावः । ६ अनुशानप्रतिषेधौ विधातव्यौ, इयं व्यवस्था भवतु। ७ सा व्यवस्थात्रापि भविष्यतीत्युक्ते सत्याह । ८ प्रतिवादिना । ९ वादिनः। १० प्रतिषिद्धः। ११ वादिनः। १२ पराजयः। १३ तस्य वादिनः। १४ प्रतिवादी । १५ गौणेथेभिप्रेते मुख्यार्थप्रतिषेधमात्रेण । १६ ननु सकलशून्यवादिनाऽमुख्यरूपतयाभ्युपगतस्य प्रमाणादेर्मुख्यरूपतयैव प्रतिषेधं विदधानः कथं यौगो निगृह्यतेत्याशङ्कायामाह। १७ उपचारेण । १८ नैतावता प्रतिवादिनः पराजयो गतः । १९ दूषणम् । २० भेदात् । २१ विधिसाध्यस्य । २२ कार्याणि, तैः समाः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org