________________
६५०
प्रमेयकमलमार्त्तण्डे [५. तदाभासपरि०
वैधवेयो नवकम्बलत्वाद्देवदत्तवत्' इति प्रयोगे यदि वक्तुः 'नवः कम्बलोस्येति, नवास्य कम्बलाः' इति चार्थद्वयं 'नवकम्बलः' इति शब्दस्याभिप्रेतं भवति तदा- 'कुतोस्य नव कम्बलाः' इति प्रत्यव तिष्ठमानो हेतोरसिद्धतामेवोद्भावयति । अन्यस्तु तदुभयार्थसम• ५ र्थनेन तदेकतरार्थसमर्थनेन वा हेतुसिद्धिं प्रदर्शयति । नवस्तावदेकः कम्बलोस्य प्रतीतो भवेता, अन्येऽप्यष्टौ कम्बला गृहे तिष्ठन्तीत्युभयथा नवकम्बलत्वस्य सिद्धेर्नासिद्धतोद्भावनीया । नैवकम्बलयोगित्वस्य वा हेतुत्वेनोपादानात्सिद्ध एव हेतुः । इति स्वपक्षसिद्धौ सत्यामेव वादिनो जयः परस्य च पराजयो १० नार्न्यथा । तन्न वाकूछलं युक्तम् ।
नापि सामान्यच्छलम् । तस्य हि लक्षणम् - "सम्भवतोर्थस्यातिसामान्ययोगाद सद्भूतार्थकल्पना सामान्यच्छलम्” [ न्यायसू० १२/१३ ] इति । तथा हि- 'विद्याचरणसम्पत्तिर्ब्राह्मणे सम्भवेत् ' इत्युक्तेऽस्य वाक्यस्य विघातोऽर्थविकल्पोपपया सद्भूतार्थकल्प१५ नया क्रियते । यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति श्रोत्येपि सम्भवेद्ब्राह्मणत्वस्य तत्रापि सम्भवात् । तदिदं ब्राह्मणत्वं विवक्षितमर्थ विद्याचरणसम्पल्लक्षणं 'कचिद्राह्मणे तादृश्येति क्वचित्तु
१७
त्येऽत्येति तदभावेपि भावात्' इत्यति सामान्यम्, तेन योगाद्वक्तुरभिप्रेतादर्थात्सद्भूतादन्यस्यासद्भूतार्थस्य कल्पना सामान्य२० च्छलम् । तच्चायुक्तम्; हेतुदोषस्यानैकान्तिकत्वस्यात्रपरेणोद्भावनात् । न चानैकान्तिकत्वोद्भावनमेव सामान्यच्छलमें; 'अनित्यः शब्दः प्रमेयत्वाद्घटवत्' इत्यादेरपि सामान्यच्छलत्वानुपङ्गात् । अत्रापि हि प्रमेयत्वं क्वचिद्धटादावनित्यत्वमेति, आकाशादौ तदभावेपि भावादत्येतीति । तथाप्यस्यानैकान्तिकत्वेपि २५ प्रकृतेपि तदस्तु विशेषाभावात् । तन्न सामान्यच्छलमप्युपपन्नम् ।
१ प्रतिवादी । २ वादी । ३ प्रतिवादिना । ४ अन्येप्यष्टौ गृहे तिष्ठन्तीति, नवकम्बलयोगित्वस्य वा हेतुत्वेनोपादानात्सिद्ध एव हेतुरित्युभयथा नवकम्बलत्वस्य सिद्धेर्ना - सिद्धतोद्भावनीया, इति स्वपक्षसिद्धौ सत्यामेव वादिनो जयः परस्य च पराजयो नान्यथेति वाक्यरचना द्रष्टव्या । ५ नवो नूतनः । ६ स्वपक्षसिद्ध्यभावे जयपराजयैौ न भवतो वादिप्रतिवादिनोरिति । ७ जायमानस्य । ८ अयं विद्याचरणसम्पत्तिमान्भवति ब्राह्मणत्वात्तादृशब्राह्मणवदिति । ९ वादिना । १० अर्धस्य विकल्पो भेदस्तस्योपपत्या कृत्वा । ११ तर्हि । १२ भ्रष्टे ब्राह्मणे । १३ कर्तृ । १४ व्यक्तयन्तरे सपक्षे । १५ प्राप्नोति । १६ विपक्षरूपे । १७ विद्याचरणसम्पलक्षणमर्थं ब्राह्मणत्वं अतिक्रम्य वर्तते इत्यर्थः । १८ ब्राह्मणत्वस्य । १९ अतिशयेन ब्राह्मणत्वम् । २० अनुमाने । २१ अन्यथा । २२ अनुमाने । २३ अतिसामान्ययोगेपि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org