SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ सू० ६।७३] जय-पराजयव्यवस्था ६४९ रिसमाप्तः। तथा हि । अहङ्कारग्रहग्रस्तानां मर्यादातिक्रमेण प्रवर्तमानानां शक्तित्रयसमन्वितौदासीन्यादिगुणोपेतसभापतिमन्तरेण "अपक्षपतिताः प्राज्ञाः सिद्धान्तद्वर्यवेदिनः।। असद्वादनिषेद्धारः प्राश्निकाः प्रमेहा इव ।" इत्येवंविधप्राश्निकांश्च विना को नाम नियामकः स्यात् ? प्रमाणतदाभासपरि-५ ज्ञानसामोपेतवादिप्रतिवादिभ्यां च विना कथं वादः प्रवर्तेत? ननु चास्तु चतुरङ्गता वादस्य । जयेतरव्यवस्था तु छलजातिनिग्रहस्थानरेव न पुनः प्रमाणतदाभासयोर्दुष्टतयोद्भावितयोः परिहृतापरिहृतदोषमात्रेण, इत्यप्यपेशलम् ; छलादीनामसदुत्तर. त्वेन वपरपक्षयोः साधनदूषणत्वासम्भवतो जयेतरव्यवस्थानि-१० बन्धनत्वायोगात् । ततः परेषां सामान्यतो विशेषतश्च छलादीनां लक्षणप्रणयनमयुक्तमेव । तत्र सामान्यतश्छललक्षणम् "वचनविघातोर्थविकल्पोपंपत्त्या छलम्" [न्यायसू० शरा१०] इति । "तत्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च" १५ [न्यायसू० १।२।११] इति । तत्र वाक्छललक्षणं तेषाम्-"अविशेषाभिहितेथें वक्तुरभि . प्रायादर्थान्तरकल्पना वाक्छलम्" [ न्यायसू० ०२।१२] इति । अस्योदाहरणम्-'आढ्यो वै वैधवेयोयं वर्तते नवकम्बलः' इत्युक्ते प्रत्यवस्थानम् कुतोस्य नव कम्बलाः? नवकम्बलशब्दे हि सामा-२० न्यवाचिन्यत्र प्रयुक्ते 'नवोस्य कम्बलो जीर्णो नैव' इत्यभिप्रायो वक्तुः, तस्मादन्यस्यासम्भाव्यमानार्थस्य कल्पना 'नव अस्य कम्बला नाष्टौ' इति । एवं प्रत्यवस्थातुरन्यायवादित्वात्पराजयः। न खलु प्रेक्षांवा तत्त्वपरीक्षायां छलेन प्रत्यवस्थानं युक्तमिति योगी; तेप्यतत्त्वज्ञाः, यतो यद्येतावतैव जिगीषुर्निगृह्येत तर्हि पत्रवाक्य-२५ मनेकार्थ व्याचक्षाणोपि निगृह्यताम् । न चैवम् । यत्र हि पक्ष वादिप्रतिवादिनोविप्रतिपत्त्या प्रवृत्तिस्तत्सिद्धरेवैकस्य जयोन्यस्य पराजयः न त्वनेकार्थत्वप्रतिपादनमात्रम् । एवं च 'आढ्यो वै १ प्रभूत्साहमत्रभेदात् । २ उदासीनःपक्षपातरहितः। ३ आदिना पापभीरुतादिसंग्रहः। ४ वादिप्रतिवादिनोः। ५ शकटोपयुक्तबलीवई द्वन्द्वधरणराशय ( बलीवर्दावरोधकरज्जवः ) इव। ६ इति चतुरङ्गत्वं सिद्धं वादस्य । ७ इति चातुर्विध्यम् । ८ छलजात्यादिवादिनाम्। ९ न मुखपिधानेन । १० प्रतिवादिना । ११ दूषणदातुः प्रतिवादिनः। १२ गुरुशिष्याणाम् । १३ ब्रुवन्ति । १४ अनेकार्थप्रतिपादनमात्रेण । १५ छलवादी। प्र. क. मा० ५५ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy