________________
५६०
प्रमेयकमलमार्तण्डे [४. विषयपरि० यदप्येकद्रव्यत्वे साधनमुक्तम्-'एकद्रव्यः शब्दः सामान्यविशेषवत्त्वे सति बाहौकेन्द्रियप्रत्यक्षत्वात्' इति; तदपि प्रत्यनुमानबाधितम्; तथाहि-अनेकद्रव्यः शब्दोऽस्मैदादिप्रत्यक्षत्वे सत्यपि स्पर्शवत्त्वाद् घटादिवत् । वायुनानेकान्तश्च स हि बाबैके५न्द्रियप्रत्यक्षोपि नैकद्रव्यः, चक्षुषैकेनाऽस्मदादिभिः प्रतीयमानैश्च. न्द्रार्कादिभिश्च । अस्मदादिविलक्षणैर्बाह्येन्द्रियान्तरेण तत्प्रतीतौ शब्देपि तथा प्रतीतिः किन्न स्यात् ? अत्र तथानुपलम्भोऽन्यत्रापि समानः।
एतेनेदमपि प्रत्युक्तम्-गुणः शब्दः सामान्यविशेषवत्त्वे सति १० बायैकेन्द्रियप्रत्यक्षत्वाद्रूपादिवत्' इति; वाय्वादिभियभिचारात्, ते हि सामान्यविशेषवत्त्वे सति बा|केन्द्रियप्रत्यक्षा न च गुणाः, अन्यथा द्रव्यसंख्याव्याघातः स्यात् । ततः शब्दानां गुणत्वासिद्धेरयुक्तमुक्तम्-'यश्चैषामाश्रयस्तत्पारिशेष्यादाकाशम्' इति ।
यञ्चोक्तम्-'न तावत्स्पर्शवतां परमाणूनौम्' इत्यादिः तत्सिद्ध१५साधनम् ; तहुणत्वस्य तत्रानभ्युपगमात् । यथा चास्मदादिप्रत्य
क्षेत्वे शब्दस्य परमाणुविशेषगुणत्वस्य विरोधस्तथाकाशविशेषगुणत्वस्यापि । तथा हि-शब्दोऽत्यन्तपरोक्षाकाशविशेषगुणो न भवत्यस्मदादिप्रत्यक्षत्वात्कार्यद्रव्यरूपादिवत् । न ह्यस्मदादि
प्रत्यक्षत्वं परमाणुविशेषगुणत्वमेव निराकरोति शब्दस्य नाकाश२०विशेषगुणत्वम् उभयत्राविशेषात् । यथैव हि परमाणुगुणो रूपादिरमदाद्यप्रत्यक्षस्तथाकाशगुणो महत्त्वादिरपि।
यच्चाप्युक्तम्-'नापि कार्यद्रव्याणाम्' इत्यादिः तदप्ययुक्तम् ; शब्दस्याकाशगुणत्वनिषेधे कार्यद्रव्यान्तराप्रादुर्भावेप्युत्पत्त्यभ्युपैगमे शब्दो निराधारो गुणः स्यात् । तथा च 'बुद्धयादयः क्वचिद्व
१ अनेकानि द्रव्याणि यस्य परमाणुद्वयाचपेक्षया । २ योगिप्रत्यक्षेण परमाणुना व्यभिचारपरिहारार्थम् । ३ एकेन वायुपरमाणुना व्यभिचारपरिहारार्थम् । ४ परमाण्वपेक्षया । ५ परमाण्वपेक्षया। ६ अनेकान्त इति संबन्धः एकद्रव्यलक्षणसाध्याभावात् । ७ योगिभिः। ८ चक्षुषोपेक्षयान्येन स्पर्शनलक्षणेन। ९ तथा चानकान्तिक एव हेतुः स्यादिति भावः। १० एकद्रव्यः शब्द इत्यादिनिराकरणेन । ११ आदिना पृथिव्यप्तेजसा ग्रहः। १२ नवद्रव्याणां पञ्चद्रव्यत्वप्रसङ्ग इत्यर्थः । १३ शब्दो विशेषगुणो न भवत्यस्मदादिप्रत्यक्षत्वात्कार्यद्रव्यरूपादिवत् । १४ जैनः । १५ विशेषणे। १६ भवन्मते । १७ असन्मते । १८ अस्मदादिप्रत्यक्षत्वसः । १९ पृथिव्यादीनाम् । २० जैनैः । २१ परेण ।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only