________________
५६२
प्रमेयकमलमार्तण्डे [४. विषयपरि० इति प्रतिशब्दं पुद्गलद्रव्यस्य तत्समवायिकारणस्य भेदात्। शब्दस्य क्षणिकत्वनिषेधाच्च कथं समानजातीयासमवायिकारणत्वम् ? . यदि चाकाशमनवयवं शब्दस्य समवायिकारणं स्यात्; तर्हि
शब्दस्य नित्यत्वं सर्वगतत्वं च स्यादाकाशगुणत्वात्तन्महत्त्ववत् । ५क्षणिकैकदेशवृत्तिविशेषगुणत्वस्य शब्दे प्रमाणतः प्रतिषेधाच्च । तत्त्वे वा कथं न शब्दाधारस्याकाशस्य सावयवत्वम् ? न हि निरवयवत्वे 'तस्यैकदेशे एव शब्दो वर्तते न सर्वत्र' इति विभागो घटते।
किञ्च, सावयवमाकाशं हिमवद्विन्ध्यावरुद्धविभिन्नदेशत्वाद्भू१.मिवत्। अन्यथा तयो रूपरसयोरिवैकदेशाकाशावस्थितिप्रसक्तिः।
न चैतद् दृष्टमिष्टं वा। .. कथं वा तदाधेयस्य शब्दस्य विनाशः? स हि न तावदाश्रयविनाशाद्धटते; तस्य नित्यत्वाभ्युपगमात् । नापि विरोधिगुणसद्भा
वात्; तन्महत्त्वादेरेकार्थसमवेतत्वेन रूपरसयोरिव विरोधित्वा१५सिद्धः। सिद्धौ वा श्रवणसमयेपि तदभावप्रसङ्गः, तदा तन्महत्वस्य भावात् । नापि संयोगादिविरोधिगुणः; तस्य तत्कारणत्वात् । नापि संस्कारः; तस्याकाशेऽसम्भवात् । सम्भवे वा तस्याभावे आकाशस्याप्यभावानुषङ्गस्तस्य तव्यतिरेकात् । व्यतिरेके वातस्य' इति सम्बन्धो न स्यात् । नापि शब्दोपलब्धिप्राप२० कादृष्टाभावात्तभावः, तुच्छाभावस्यासामर्थ्यतो विनाशाहेतुत्वात् खरविषाणवत् । तन्न शब्दस्याकाशप्रभवत्वमभ्युपगन्तव्यम् ।
ननु चाऽस्य पौद्गलिकत्वेऽस्मदाद्यनुपलभ्यमानरूपाद्याश्रयत्वं न स्यात्पटादिवत्, तन्न; घणुकादिना हेतोर्व्यभिचारात् । नाय
नरश्मिषु जलसंयुक्तानले चानुद्भूतरूपस्पर्शर्वत् शब्दाश्रयद्रव्ये२५ऽस्मदाद्यनुपलभ्यमानानामप्यनुद्भूततया रूपादीनां वृत्त्यविरोधः।
यथा च घ्राणेन्द्रियेणोपलभ्यमाने गन्धद्रव्येऽनुद्भूतानां रूपादीनां वृत्तिस्तथात्रापि । यथा च तैजसत्वात्पार्थिवत्वाच्चात्रानुपलम्भपि
. १ अनेकात् । २ पर्यायरूपेण वस्तुनो विनाशात् । ३ जैनेन । ४ तन्महत्त्ववत् । ५ तथा च हिमवद्विन्ध्ययोः सहचरभाव इति भावः। ६ परेण। ७ विरोधिगुणरूपस्य । ८ शब्दं प्रति । ९ संयोगादिः शब्दकारणमिति वचनात् । १० कार्यरूपेण। ११ यत्पौगलिकं तदस्मदाद्युपलभ्यमानरूपाद्याश्रयमित्युक्ते व्यणुकादिना पौद्गलिकेन व्यभिचारोऽसदाधुपलभ्यमानरूपाश्रयत्वलक्षणसाध्याभावात्। १२ उष्णस्पर्शे। १३ अत्र रूपं भासुरम् । १४ परमते । १५ परमते । १६ नायनरम्यादिषु ( जलसंयुक्तानले गन्धद्रव्ये) त्रिषु ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org