Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 810
________________ ६४६ प्रमेयकमलमार्त्तण्डे [ ५. तदाभासपरि० तस्मान्न विजिगीषतोरिति । न हि वादस्तत्त्वाध्यवसायसंरक्षणार्थी भवति; जल्पवितण्डयोरेव तत्त्वात् । तदुक्तम् "तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कंटकशाखावरणवत्" [ न्यायसू० ४।२।५० ] इति । तदप्यसमीची५ नम्; वादस्याविजिगीषुविषयत्वासिद्धेः । तथाहि वादो नाविजिगीषुविषयो निग्रहस्थानवत्त्वात् जल्पवितण्डावत् । न चास्य निग्रहस्थानवत्त्वमसिद्धम् ; 'सिद्धान्ताविरुद्धः' इत्यनेनापसिद्धान्तः, 'पञ्चाव्यवोपपन्नः' इत्यत्र पञ्चग्रहणात् न्यूनाधिके, अवयवोपपन्नग्रहणाद्वेत्वाभासपैञ्चकं 'चेत्यष्टनिग्रहस्थानानां वादे नियमप्रतिपादनात् । १० ननु वादे सतामप्येषां निग्रहबुद्ध्योद्भावनाभावान्न विजिगी - पास्ति । तदुक्तम् - "तैर्कशब्देन भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनादुद्भावन नियमोपलभ्यते" ] तेन सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति चोत्तरपदयोः समस्तनिग्रहस्थानाद्युपलक्षणार्थत्वाद्वादेऽप्रमाणबुद्ध्या परेण छलजातिनिग्रह - १५ स्थानानि प्रयुक्तानि न निग्रहबुद्ध्योद्भाव्यन्ते किन्तु निवारणबुद्ध्या । तत्त्वज्ञानायावयोः प्रवृत्तिर्न च साधनाभासो दूषणाभासो वा तद्धेतुः । अतो न तत्प्रयोगो युक्त इति । तदद्भ्य साम्प्रतम् ; जल्पवितण्डयोरपि तथोद्भावन नियमप्रसङ्गात् । तयोस्तत्त्वाध्यवसायसंरक्षणाय स्वयमभ्युपगमात् । तस्य च छलजातिनिग्रहस्थानैः २० कर्तुमशक्यत्वात् । परस्य तूष्णींभावार्थ जल्पवितण्डयोइछलाधु १ वादो न विजिगीषतोर्वर्ततां तत्त्वाध्यवसायसंरक्षणार्थश्च भवत्विति सन्दिग्धानैका - न्तिकत्वे सत्याह । २ स्तः । ३ प्रमाणतर्क ( विचार ) साधनो ( स्वपक्षस्य ) पालम्भः ( परपक्षस्य दूषणं ) सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति परकीयं वादलक्षणसूत्रम् । जैनमते तु समर्थ ( वादिप्रतिवादिनोर्जयपराजयार्थं ) वचनं वाद इति वादलक्षणम् । ४ प्रतिज्ञोपपन्न इत्यनेनाश्रयासिद्धहेत्वाभासग्रहणं, हेतूपपन्न इत्यनेन स्वरूपासिद्धहेत्वाभासस्य, अन्वयदृष्टान्तोपपन्न इत्यनेन विरुद्ध हेत्वाभासस्य व्यतिरेकदृष्टान्तोपपन्न इत्यनेनानैकान्तिक हेत्वाभासस्योपनयोपपन्न इत्यनेन कालात्य - यापदिष्टस्य, निगमोपपन्न इत्यनेन सत्प्रतिपक्षस्य च ग्रहणम् । ५ अनेनात्र भवितव्यं नान्येनेति सम्भावनाप्रत्ययस्तर्को विचार इति यावत्, वादलक्षणे गृहीतेन । ६ व्याख्यानकाले क्रियमाणे विचारे वीतरागत्वं वादिप्रतिवादिनोस्तथा वादकालेपि तत्स्यात् । कुत एतत् ? वादलक्षणे तर्कशब्दोपादानाद् ज्ञायते । ७ व्याख्यानका विचारो वीतरागत्वस्य हेतुस्तथा वादेपीति तात्पर्यम् । ८ अपसिद्धान्तादिकं निग्रहबुद्ध्या नोद्भावनीयमिति । ९ प्रमाणतर्कसाधनोपालम्भ इति प्रथमपदापेक्षयोत्तरपदत्वमनयोः । १० ततश्च छलजात्यादीनां निवारणबुद्वयोद्भावनमिति भावः, निग्रहस्थानैः प्रतिवादिनो निराकरणं न तु तत्त्वनिर्णय इति भावः । For Personal and Private Use Only Jain Educationa International www.jainelibrary.org

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920