________________
६४६
प्रमेयकमलमार्त्तण्डे [ ५. तदाभासपरि०
तस्मान्न विजिगीषतोरिति । न हि वादस्तत्त्वाध्यवसायसंरक्षणार्थी भवति; जल्पवितण्डयोरेव तत्त्वात् । तदुक्तम्
"तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कंटकशाखावरणवत्" [ न्यायसू० ४।२।५० ] इति । तदप्यसमीची५ नम्; वादस्याविजिगीषुविषयत्वासिद्धेः । तथाहि वादो नाविजिगीषुविषयो निग्रहस्थानवत्त्वात् जल्पवितण्डावत् । न चास्य निग्रहस्थानवत्त्वमसिद्धम् ; 'सिद्धान्ताविरुद्धः' इत्यनेनापसिद्धान्तः, 'पञ्चाव्यवोपपन्नः' इत्यत्र पञ्चग्रहणात् न्यूनाधिके, अवयवोपपन्नग्रहणाद्वेत्वाभासपैञ्चकं 'चेत्यष्टनिग्रहस्थानानां वादे नियमप्रतिपादनात् । १० ननु वादे सतामप्येषां निग्रहबुद्ध्योद्भावनाभावान्न विजिगी - पास्ति । तदुक्तम् - "तैर्कशब्देन भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनादुद्भावन नियमोपलभ्यते" ] तेन सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति चोत्तरपदयोः समस्तनिग्रहस्थानाद्युपलक्षणार्थत्वाद्वादेऽप्रमाणबुद्ध्या परेण छलजातिनिग्रह - १५ स्थानानि प्रयुक्तानि न निग्रहबुद्ध्योद्भाव्यन्ते किन्तु निवारणबुद्ध्या । तत्त्वज्ञानायावयोः प्रवृत्तिर्न च साधनाभासो दूषणाभासो वा तद्धेतुः । अतो न तत्प्रयोगो युक्त इति । तदद्भ्य साम्प्रतम् ; जल्पवितण्डयोरपि तथोद्भावन नियमप्रसङ्गात् । तयोस्तत्त्वाध्यवसायसंरक्षणाय स्वयमभ्युपगमात् । तस्य च छलजातिनिग्रहस्थानैः २० कर्तुमशक्यत्वात् । परस्य तूष्णींभावार्थ जल्पवितण्डयोइछलाधु
१ वादो न विजिगीषतोर्वर्ततां तत्त्वाध्यवसायसंरक्षणार्थश्च भवत्विति सन्दिग्धानैका - न्तिकत्वे सत्याह । २ स्तः । ३ प्रमाणतर्क ( विचार ) साधनो ( स्वपक्षस्य ) पालम्भः ( परपक्षस्य दूषणं ) सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति परकीयं वादलक्षणसूत्रम् । जैनमते तु समर्थ ( वादिप्रतिवादिनोर्जयपराजयार्थं ) वचनं वाद इति वादलक्षणम् । ४ प्रतिज्ञोपपन्न इत्यनेनाश्रयासिद्धहेत्वाभासग्रहणं, हेतूपपन्न इत्यनेन स्वरूपासिद्धहेत्वाभासस्य, अन्वयदृष्टान्तोपपन्न इत्यनेन विरुद्ध हेत्वाभासस्य व्यतिरेकदृष्टान्तोपपन्न इत्यनेनानैकान्तिक हेत्वाभासस्योपनयोपपन्न इत्यनेन कालात्य - यापदिष्टस्य, निगमोपपन्न इत्यनेन सत्प्रतिपक्षस्य च ग्रहणम् । ५ अनेनात्र भवितव्यं नान्येनेति सम्भावनाप्रत्ययस्तर्को विचार इति यावत्, वादलक्षणे गृहीतेन । ६ व्याख्यानकाले क्रियमाणे विचारे वीतरागत्वं वादिप्रतिवादिनोस्तथा वादकालेपि तत्स्यात् । कुत एतत् ? वादलक्षणे तर्कशब्दोपादानाद् ज्ञायते । ७ व्याख्यानका विचारो वीतरागत्वस्य हेतुस्तथा वादेपीति तात्पर्यम् । ८ अपसिद्धान्तादिकं निग्रहबुद्ध्या नोद्भावनीयमिति । ९ प्रमाणतर्कसाधनोपालम्भ इति प्रथमपदापेक्षयोत्तरपदत्वमनयोः । १० ततश्च छलजात्यादीनां निवारणबुद्वयोद्भावनमिति भावः, निग्रहस्थानैः प्रतिवादिनो निराकरणं न तु तत्त्वनिर्णय इति भावः ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org