________________
सू० ६१७३] जय-पराजयव्यवस्था ६४७ द्भावनमिति चेत्, न; तथा परस्य तूष्णीभावाभावादऽसदुत्तराणामानन्त्यात् । • [न च] तत्त्वाध्यवसायसंरक्षणार्थत्वरहितत्वं च वादेऽ. सिद्धम् । तस्यैव तत्संरक्षणार्थत्वोपपत्तेः । तथाहि-वाद ऐव तत्त्वाध्यवसायसंरक्षणार्थः, प्रमाणतर्कसाधनोपालम्भत्वे सिद्धा-५ न्ताविरुद्धत्वे पञ्चावयवोपपन्नत्वे च सति पक्षप्रतिपक्षपरिग्रहवत्वात्, यस्तु न तथा स न तथा यथाक्रोशादिः, तथा च वादः, तस्मात्तत्त्वाध्यवसायसंरक्षणार्थ इति । न चायमसिद्धो हेतुः; . "प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोप- ... पन्नः पक्षप्रतिपक्षपरिग्रहो वादः।" [ न्यायसू० १२१] इत्यभि-१० धानात् । “पक्षप्रतिपक्षपरिग्रहवत्त्वात्' इत्युच्यमाने जल्पोपि तथा स्यादित्यवधारणविरोधः, तत्परिहारार्थ प्रमाणतर्कसाधनोपालम्भत्वविशेषणम् । न हि जल्पे तदस्ति, “यथोक्कोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः।" [ न्यायसू० १२।२] इत्यभिधानात् । नापि वितण्डा तथानुषज्यते; जल्पस्यैव वितण्डा-१५ रूपत्वात, "स प्रतिपक्षस्थापनाहीनो वितण्डा।" [ न्यायसू० १॥२॥३] इति वचनात् । स यथोक्तो जल्पः प्रतिपक्षस्थापनाहीनतया विशेषितो वितण्डात्वं प्रतिपद्यते । वैतण्डिकस्य च खपक्ष एव साधनवादिपक्षापेक्षया प्रतिपक्षो हस्तिप्रतिहस्तिन्यायेन । तस्मिन्प्रतिपक्षे वैतण्डिको हि न साधनं वक्ति । केवलं २० परपक्षनिराकरणायैव प्रवर्तते इति व्याख्यानात् । . पक्षप्रतिपक्षौ च वस्तुधर्मावेकाधिकरणौ विरुद्धावेककालावन वसितौ । वस्तुधर्माविति वस्तुविशेषौ वस्तुनः । सामान्येनाधिगतत्वाद्विशेषतोऽनधिगतत्वाञ्च विशेषावगमनिमित्तो विचारः ।
। १ हेतुः। २ न जल्पवितण्डे इत्यर्थः । ३ एवकारेण । ४ केवलम् । ५ यथोतेन वादलक्षणेनोपपन्नः, यथोक्तोपपन्नग्रहणेन प्रमाणतर्कसाधनोपालम्भमात्रमुपलक्ष्यते न समस्तं वादलक्षणं सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्युत्तरपदद्वयस्य निग्रहस्थाननियमनिबन्धनस्यात्र सम्बन्धाऽभावात् जस्पे समस्तनिग्रहस्थानासम्भवात् । ६ तत्त्वाध्यवसायसंरक्षार्थत्वेन। ७ प्रतिवादि । ८ हस्त्येव प्रतिहस्ती हस्त्यन्तरापेक्षया, तस्य न्यायेन। ९ स्वपक्षसाधनाय हेतुम् । १० प्रतिवादी यं कञ्चन सिद्धान्तमवलम्ब्यावस्थितः प्रतिपक्षमङ्गमात्रेण विजयी भवति न तु जल्पवत्स्वपक्षसाधनेनेति भावः । ११ पक्षप्रतिपक्षयोर्लक्षणं कृत्वा जल्पवितण्डयोः पक्षप्रतिपक्षपरिग्रहत्वं निराकरोति जैनः । १२ शब्दाद्याश्रितनित्यानित्यत्वादिलक्षणौ। १३ शब्दादिलक्षणस्य । १४ भवतीति शेषः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org